पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौपीतक्युपनिषत्रकाशिका नन्वनिष्टादिकारिणां चन्द्रप्राप्त्यभावे पञ्चमाहुत्यसंभवात् शरीरारम्भ एवं नोपपद्यते । तत्राह "न तृतीये तथोपलब्धेः"। 'तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीय स्थान' मिति तृतीयस्थानशब्दितानामनिष्टादिकारिणां क्षुद्रजन्तूनां न पञ्चमाहुत्यपेक्षा । तथा ह्युपलभ्यते, 'तेनासौ लोको न संपूर्यत' इति । तृतीयस्थानेन हि (१) असौ चन्द्रलोको न प्राप्यत इति हि तस्यार्थः । " स्मर्यतेऽपि च लोके " । केषाश्चित् पुण्यकर्मणामपि द्रौपदीधृष्टद्युम्नप्रभृतीनां पञ्चमाहुत्यनपेक्षयैव देहारम्भो भारतादिषु स्मयते । “ दर्शनाच्च" । .. । अत्रेदं बोध्यम् - उपरि तेषां प्राणैः पूर्वपक्ष आप्यायते इति वाक्ये तेषामिति इष्टादिकारिणामेव ग्रहणम् । न तु तद्भिनानां विदुषाम् ; तेषामर्चिरादिमागें चन्द्रप्राप्तिसत्त्वेऽपि चन्द्रस्य तदा तदधीनवृद्धयभावात् । स्वर्गानुभवार्थ गच्छतामेव सोमराज्ञभावस्य प्रामाणिकत्वात् । विदुषां तु आतिवाहिकान्तरैरिव चन्द्रेणापि सोपचारं स्वस्थानादतिवहनमात्रम् ; न तु तत्र सर्वथा स्थापनादि । एवञ्च तत्पूर्ववाक्येऽपि ते सर्वे इति इष्टादिकारिमात्रग्रहणमेव युक्तम् । ननु तर्हि इष्टादिकारिषु केषांचित चन्द्रेण विसृज्यमानत्वमर्चिरादिगमनश्च कथ्यमान कथं घटत इति चेत् - उच्यते । अत्रेष्टादिकारी विद्वान् अविद्वांश्चेति द्विविधः । अविद्वानिव विद्वानपि कथित चन्द्रमन्डले भोगं कश्चित् कालमनुबुभूषुरिष्टादिकार्यपि भवति चेत् , स तद्भोगावसाने चन्द्रेण पृष्टवता मोक्षायाति सृज्यत इति । तत्रायं कर्मफलस्यानुभूतत्वात् विद्याफलानुभवायार्चिरादिमार्ग प्रविशति । न त्वयमर्चिरादिद्वारा प्राक् चन्द्रमण्डलं प्राप्तः । चन्द्रप्राप्तर्विद्याफलत्वे हि अर्चिरादिमुखेन सा स्यात् । इष्टिफलत्वातु धूमादिमार्गेण चन्द्रगमनमेव युक्तम् ! तत्र भोगानुभवात् पश्चादेषार्चिरादिगमनम् । तदेवोच्यते, स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छती' त्यादिना । न च तर्हि, “यथाकर्म यथाविद्यं तमागतं पृच्छती' ति विद्याफलतया चन्द्रगमनवर्णनं कथं घटत इति वाच्यम् - तस्य वाक्यस्य विद्याफलत्वप्रतिपादने तात्पर्याभावात् , केवलकर्मी विद्वांश्च स्वकृतेष्टादिक्रियानुसारेण य आगछति तमित्यत्रैव तात्पर्यादित्येका निरूपणसरणिः । अन्या तु-धूमादिमार्गेणेव अर्चिरादिमार्गेणापि चन्द्रगमनसद्भावात् तदेव यथाकर्म यथाविधमिति विवक्षितम् । एवञ्च ते सर्वे गच्छन्तीत्येतत् इष्टादिकारिमिन्नविद्वद्विषयकमपि । ततश्च चन्द्रगमनमिदं विद्याफलभूतमेव । न चैवमर्चिरादिमार्गेण प्राप्तचन्द्रस्य पुनः, 'अग्निलोकमागच्छती 'त्यादिना आदितो गमनवर्णनं कथं घटत इति वाच्यम् - तस्य वाक्यस्य चन्द्रप्राप्त्यनन्तरमर्चिरादिगतेरादितः प्राप्तिवर्णने तात्पर्याभावात् , केवलमचिरादिमार्गसत्तामात्रे तात्पर्यात् । यथा तत्र वायुलोकवरुणलोकादित्सलोकादीनामत्र स्थितः क्रमः अविवक्षितः, तथा चन्द्रलोक-