पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजम् उद्भिज्ज' मिति श्रुत्युपात्ताण्डजजीवजोद्भिजलक्षणभूतजाति (त?) मध्ये केषाश्चिदुद्भिज्जानां वृक्षादीनां पञ्चमाहुत्यनपेक्षा लोके दृष्टा । ननु, ' तेषां खल्वेषां भूतानां त्रीण्येवे ' त्यवधारणं नोपपद्यते । स्वेदजानामत्रानुपातत्वात् । तत्राह-"तृतीयशब्दावरोधः संशोकजस्य "। संशोकजस्य = स्वेदजस्यापि आण्डज जीवजं उद्भिज । मित्यत्र तृतीयेनोद्विज्जशब्देनावरोधः = संग्रहो विद्यत इत्यर्थः । अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न भवतीति स्थितम् । प्रकृतमनुसरामः ॥ प्राप्त्यनन्तरमग्निलोकगमनवर्णनमप्यविवक्षितमेव । इष्टिविशेषं कृत्वा विद्यामनुतिष्ठन् चन्द्रमस्संवादक्रममपि करिष्यमाणं गतिमिव चिन्तयन्नास्त यः , स यथाकर्म यथाविधं विद्याफलतया अर्चिंरादिमार्गप्रवेशमेव प्रथमं प्राप्य चन्द्र प्राप्नोति । स चातिसृज्यत इति । तृतीया तु-चन्द्रमस्संवादचिन्तासद्भावात् विद्याकर्मोभयफलतया अर्चिरादिमुखेनैव चन्द्रप्राप्तिरस्तु । अवश्यगन्तव्यमार्गमध्यगतस्य मार्गान्तरेण गमनकल्पने गौरवाच्च । अथापि ते सर्वे इत्यत्र श्रीभाष्यस्वारस्यात् इष्टादिकारिभ्यतिरिक्तस्य विदुषोऽनिष्टादिकारिण इवाग्रहणमेवेति । अत्र अधिकरणसारावलिश्लोकोऽप्यनुसंधानमहति- 'पूर्व धूमादिमार्गे सुकृतिषु कथिता चन्द्रम् प्रातिरन्या सायुज्यं न्यास विद्या प्रकरणपठितं चान्द्रमन्यादृगुक्तम् । अन्याऽत्रार्चिमुखानामतिवहनकृतामटमष्टमस्यातिरिन्दोः इत्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम् ।। (५०८ इति । अत्र चतुर्थपादान्ते प्रणिहितहृदयैरित्यादिकं नूनं प्रकृतकौषीतक्युक्तचन्द्रमसंवादाभिप्रायेणैवेति ज्ञायते । पूर्वदर्शितत्रिविधचन्द्रप्राप्तिप्रकारवत् अयं चतुर्थोऽपि प्रकारः इष्टिसहकृतविद्याफलभूतः, यः खलु न्यायविद्याप्रकरणपठितवत् न दक्षिणायनमृतमात्रविषयकः, किंतु अन्यादृशः संवादपूर्वमतिसर्गसंपादकश्चेति । अत्र अर्चिरादिमार्गेण चन्द्रं गत्वा संवादो विवक्षित इति श्रीमाष्यतोऽपि ज्ञायते । तथा ह्यासृत्युपक्रमाधिकरणे, " उपलभ्यते हि देवयानेन पथा गच्छतो विदुषः, 'तं प्रतिबूयात् - ' इति चन्द्रमसा संवादवचनेन शरीरसद्भावः" इति। न ह्यत्र गच्छत इत्यस्य, गमिष्यतः स्थूलदेहादुत्कान्तस्येत्यर्थवर्णनं रुचिरम् । अत इह अर्चिरादिक्रमेण चन्द्रमःप्राप्तिवर्णनं सुस्थमिति । (९)