पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

. . - कौषीतक्युपनिषत्प्रकाशिका १०५ तेषां प्राणैः पूर्वपक्ष आप्यायते। तानपरपक्षेण प्रजनयति॥१०॥ एतद्वै स्वर्गस्य लोकस्य द्वारं यश्चन्द्रमाः ॥ ११ ॥ ते यः प्रत्याह, तमतिसृजते । य एन न प्रत्याह, तमिह वृष्टिर्भूत्वा वर्षति । स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा परस्वान् वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायते ॥१२ ।। 1. यत् १. परश्चा. तेषां-प्रजनयति । तेषाम् इष्टादिकारिणां प्राणैः इन्द्रियैः मनोहस्ता- दीन्द्रियजन्यदानहोमादिभिः पूर्वपक्षे चन्द्रः आप्यायते संवर्ध्यते । “ओ प्यायी वृद्धौ " इति हि धातुः । अग्नौ हुतञ्च दत्तञ्च सर्व सोमगतं भवेत् । इति स्मरणात् । तान् इष्टादिकारिणः अपरपक्षेण पञ्चदशभिर्दिनैः प्रजनयति ग्राहयति । स्वावयवभूताः कलाः आशयतीत्यर्थः । कलाभिस्तर्पणं करोतीति यावत् । 'पुरोवातो गाः प्रजनयती त्यत्र 'प्रजनयती ' त्यस्य गन्धं ग्रहायतीत्यर्थपरत्वदर्शनादिहापि प्रजनयतीत्यस्य ग्राहयतीत्यर्थ उपपद्यते । अपरपक्षेनेति पाठे णत्वाभावश्छन्दसः ॥ (१०) । एतद्वै- यश्चन्द्रमाः। स्वर्गस्य लोकस्य भगवल्लोकस्य द्वारं दौवारिकप्राय इत्यर्थः ॥ (१) ॥ तं यः प्रत्याह तमतिसृजते । य एनं न प्रत्याजायते । चन्द्रः स्वपश्नस्य यः सदुत्तरं प्रयच्छति, तमतिसृजते भगवल्लोकगमनाय तमनुजानाति । यस्तु प्रतिवक्तुमशक्तः, तम् अविद्वांसम् , ' यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशमाकाशाद्वायुम् । वायुर्भूत्वा धूमो भवति । धूमो भूत्या अभ्रं भवति । अभ्रं भूत्वा मेघो भवति । मेघो भूत्वा प्रवर्षति । त इह व्रीहियया ओषधिवनस्पतयस्तिलमाषा इति जायन्ते । तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । य इह कपूयचरणा अभ्याशो ह यत् ते कपूयां योनिमापद्येरन् श्वयोनिं वा सुकरयोनिं वा चण्डालयोनिं वा' इतिश्रुत्यर्थोऽत्रानुसन्धेयः । परस्वान् पशुविशेषः । एतेषु स्थानेषु जायते ॥ (१२) ॥ 14 -- ,