पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को.. यथाकर्म यथाविधं तमागतं पृच्छति, कोऽसीति । तं प्रतिब्रूयात् ॥ १३॥ विचक्षणादृतवो रेत आभृतं पञ्चदशात् प्रसूतात् पित्र्यावतस्तस्मात् ॥ १४ ॥ 1. तन्मा. यथाकर्म -कोसीति । इष्टादिकर्मानुसारेण वा ब्रह्मविद्यानुसारेण वा आगतं पुमांसं पृच्छति कोसीति । तं प्रतिब्रूयात् । तं वक्ष्यमाणप्रकारेण यः प्रतिब्रूयात् , तमसिसृजत इत्युत्तरेणान्वयः ॥ (१३) ॥ प्रतिवचनप्रकारमाह विचक्षणात् -- तस्मात् । मासादिकालपरिच्छेदकत्वात् चन्द्रस्य ऋतुशब्देन संबोधनम् । एकस्मिन् औपचारिको बहुवचनप्रयोगः । दिवसपूर्वपक्षोत्तरायणादिलक्षणकालाभिमानिदेवतासाहित्याभिप्रायेण वा ऋतव इति बहुवचनप्रयोगः । हे ऋतवः ! कालपवर्तका इत्यर्थः। पित्र्यावतः पितुः कर्म पित्र्यं निषेकादि । तद्वान् । छन्दसो मतौ दीर्घः । निषेकादिकर्तुः विचक्षणात् तस्मात् प्रसतात् प्रसूतम् उत्पन्नम् । 'सुपां सुलुक् ' इत्यादिना आदादेशः । पश्चदशम् पञ्च दशा अवस्थाः यस्य तत् पञ्चदशम् । श्रद्धासोमवृष्टयन्नरेतोरूपावस्थापञ्चकयुक्तम् आभृतं शोणितेन संभृतं रेतोऽस्मि । रेतश्शरीरकोऽहमित्यर्थः । अनेन पञ्चाग्निविद्याप्रकारोपन्यासात् स्वस्य प्रकृतिविविक्तात्मस्वरूपमुपन्यस्तं भवति ।। (१४)॥ ननु ' यक्ष्यमाण आरुणिं वज्ञे इत्यपक्रमबलात् चन्द्रलोकप्राप्तेर्यागफलत्वावसीयात् कथमर्चिरादिना तत्प्राप्तिरिति चेत्-उपरि यथाकर्म यथाविद्यं तमागतमिति विद्याफलभूतमागमनमिति वर्णनात् तस्य चागमनस्य अर्चिरादिमार्गेणैव युक्तत्वात् उपक्रमवलेन चन्द्रलोकलभ्यफलस्य यागसाध्यत्वेऽपि तदर्थमागमनं न यष्टन्तराणामिव धूमादिमार्गेण, किन्तु प्रधानभूतविद्या- फलभूतमोक्षार्थोपनतार्चिरादिमार्गणैवैत्यवसीयत इति । अतएवोपकमेऽपि अध्वा वा तस्येति प्रकृतस्य विदुषो यष्टु : यदून्तरगम्यादध्वनो विलक्षणोऽध्वा चन्द्रलोकफलात् प्रागेवेति ज्ञायत इति सुवचम् । न च आतिवाहिकान्तरैरिव चन्द्रेणापि सोपचारं सगौरवं प्रत्युद्गम्य गृहीतो मुसुक्षुः कथं तेन, 'कोऽसीति पृच्छयत इति वाच्यम् - अमुमुक्षुवत् अर्वाचीनावान्तरफलानुभवनिमग्नतादशायां कोऽसीति पृच्छयमानत्वे बाधकाभावात् । अमुमुक्षुतुल्यदशामुपेक्ष्य मोक्षत्वरासंगादकतयाऽनुकूलत्वाच्च । तमागतं पृच्छतीति ! आगत्यानुभूतफलं तं पृच्छतीत्यर्थः । प्रतिब्रूयादित्यत्र य इति शेषः । अस्य प्रतिसंबन्धि तमतिसृजति इति वक्ष्यमाणतत्पदम् ।