पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

17

छायासुप्तप्रसुप्तेष्वघटितविजराशोकतासत्यकामा- द्याविर्भावं प्रजापत्युदितमभिलषन् दह्नविद्याधिगन्ता । सत्यैर्धूतावताद्यैः सहितमहिपतिक्षोणिभृद्वल्लभैतैः ध्यायंस्त्वां ब्रह्म सत्यं हृदि दहरतनुं सेतुरूपं महान्तम् ।। ८५

सारम्यैरम्मदीयप्रभुविमितमुखे ब्रह्मलोके तृतीय- द्युत्थे वेश्म प्रपन्नः स्फुरितनिजवपुः कामचारान् भजेत । इत्थं छान्दोग्यगीतः पुरगतहृदयस्थानसंशोधनेन व्यक्तं प्रोक्तोऽसि नारायण इति गगनं तैत्तिरीये विशोकः ॥ ८६

एवं श्रीयाज्ञवल्क्यो जनकनरपतौ प्रश्नदत्तावकाशे जाग्रत्त्वेऽर्कादिभास्यं पुरुषमनुवदन् अन्यदा चात्मभास्यम् । आत्मावस्थाः प्रबोधं स्वपनमनुपमानन्दभावप्राज्ञसङ्गं सुष्वापेऽथास्य लोकान्तरविभवमपि प्राज्ञकार्यं मृतत्वे ।।

बुध्वा मोक्षैकदृष्टिं नृपतिमभिमतस्वात्मयाथात्म्यबोधं ब्रह्मानन्दानुभूतिं निजपरमदशामत्र चामुत्र लभ्याम् । उक्त्वा त्वां वस्वपेक्षरशनदवसुदानत्वरूपेण भाव्यं - हृद्याकाशे शयानं दहरमभिदधे निर्भयत्वाय वेधम् ।।

दहत्वञ्चिन्तनायामिव नियतगुणाष्टत्वसाम्यात् प्रजाप- त्युक्ता जीवात्मविद्या न्यगदि निखिलविद्याङ्गभावेऽपि येह । तन्मात्रान्नैवमुक्तिर्न हि दहरमतिः सेति चार्थाद् वदद्भिः श्यामाकाशादिमन्त्रैः श्रितरम ! दहराकाश आम्नायसे त्वम् ॥ ८९

बृहदारण्यकोपनिषत् श्रीमन् ! 'कं मेऽर्चतेऽभू ' दिति मतिजनिलब्धार्कसंज्ञत्वदुत्था- ' प्सारक्षोणिस्थितोऽग्निः क्रतव इह चितस्तार्क्ष्य एष त्वमर्कः । iji