पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका पुंसि कर्तरि मेरयध्वम् । पुंसा कर्ता मातरि मा "निषि- क्तम्(क्तः)॥१५॥ स 'जायमुपजायमानो द्वादशत्रयोदशोपमासः ॥ १६ ॥ द्वादशत्रयोदशेन पित्राऽऽसं तद्विदेऽहं प्रति तद्विदेऽहम् ।। १७ ॥ 1. कर्तयैरयध्वम् . 2. सिषिक्त..जायमान उपजायमानः


पुंसि-मा निषिक्तम् (क्त.)। हे ऋतवः ! यूयमितः परं निषेककर्तरि पुंसि रेतोरूपतया अवस्थानाय मेरयध्वम् मा प्रेषयत । पेषणं मा कुरुतेत्यर्थः । 'उत्तस्त्र मा इत्यस्य अत्राप्यनुषङ्गः। पुंसा निषेककर्त्रा मम शरीरपरिग्रहाय मातरि मा निषिक्तम् (क्त) निषेकं मा कुरुत । छान्दसः शपो लुक् ॥ (१५) ॥ स जायम् - मासः। सोऽहं जायं जनित्वा - आभीक्ष्ण्ये णमुल्- गर्भे गर्भे जनित्वा जनित्वा उपजायमानः गर्भात् निर्गच्छन् द्वादशः त्रयोदशो वा उपमासः अन्तिममासो यस्य सः द्वादशत्रयोदशोपमासः--यद्यपि मनुष्याणां गर्भे दशैव मासाः, अथापि योनिविशेषेषु द्वादशत्रयोदशमासपर्यन्तस्थितिरस्तीति तथोक्तम् द्वादश वा त्रयोदश वा मासान् गर्भे उषित्वेत्यर्थः ।। (१६) ।। द्वादश-तद्विदेऽहम् । अहं द्वादशेन वा त्रयोदशेन वा मासेन पित्रा आसं प्रादुरासम् । पितृशब्दो मातुरप्युपलक्षकः । तद्विदे प्रति तद्विद । अत्र तच्छब्दः पूर्वोक्तरेतःपरामर्शी । तद्विदे रेतस्सिचे । तद्विदे तद्विदे प्रति = प्रति- रेतस्सिवपुरुषभित्यर्थः। चतुर्थी तादर्थ्यार्था । तेषां पितॄणां शेषभूत एवासमित्यर्थः ॥ (१७) 1. उत्तरत्र मा इत्यस्येति । निषेधार्थकमाशब्दस्येव मामित्यर्थेऽपि शब्दस्यापेक्षितत्वात् उत्तरत्र श्रुतं मेतिपदं मामित्यर्थकमिहानुषञ्जनीयम् । तत्रापि निषेधार्थकमाशब्दोऽयमनुषञ्जनीय इत्यर्थः । पूर्वत्र तस्मादिति पदस्थाने तन्मा इति पाठे तु तत्रत्यो माशब्दो मामित्यर्थक इष्टान्वेतीति ध्येयम् ।