पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. १. तन्मा ऋतवो मर्त्यव आभरध्वम् ॥ १८ ॥ तेन सत्येन तपसर्तुरस्म्यार्तवोऽस्मि 'कोऽस्मि त्वमस्मीति ॥१९॥ तमतिसृजते ।।२०।। स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं 1. कोसि. तन्मा ऋतवो मर्त्यव आभरध्वम् । -- हे ऋतव इति पूर्ववत् संबोधनम् । तत् तस्मात् कारणात् मर्त्यवे मृत्यवे जननमरणलक्षणसंसाराय मा आभरध्वम् इतः परं मा समर्पयत ॥ (१८)॥ तत्र हेतुमाह तेन सत्येन --- त्वमस्मीति । तस्मान्नायासमेषां तपसामतिरिक्तमाहु ' रिति श्रुतेः तच्छरणवरणलक्षणेन तपसा प्रसन्नेन तेन सत्येन परमात्मना अनुगृहीतस्सन् ऋतुरस्मि मासर्तुसंवत्सरयुगात्मककालरूपोऽहमस्मि । आर्तवोऽस्मि तत्तत्कालवर्तिपदार्थरूपोऽप्यहमस्मि । कोऽस्मि चतुर्मुखोऽप्यहमस्मि । त्वमसि त्वमप्यहमेवास्मि । अत्र अहंशब्दः, 'अहं मनुरभवं सूर्यश्चे ति वामदेववाक्यवत् , 'तं मामायुस्मृतमित्युपास्स्वे' ति इन्द्रवाक्यवच्च स्वात्मनूतपरमात्मपरः ॥ साक्षात्कृतसर्वैकात्म्योऽहमस्मीत्यर्थः ॥ (१२) तमतिसृजते । एवं यः प्रतिब्रूयात् , तं ब्रह्मवित्त्वेन ब्रह्मलोकगमनार्हतां ज्ञात्वा गमनाय अनुजानातीत्यर्थः ॥ (२०) ।। एवं ब्रह्मविच्चन्द्रमसंवादप्रकारं प्रदर्श्य आदित आरभ्य अर्चिरादिगतिक्रममुपदिशति स एतं- आगच्छति । सः ब्रह्मवित् देहवियोगकाल एवं सुकृतदुष्कृते विधूय देवयानणर्गमापद्य अवलम्ब्य अग्निलोकमागच्छति । तेऽर्चिषमभिसंभवन्तीति अर्चिश्शब्दितस्याग्नेः देवयानमार्गप्रथमपर्वत्वश्रवणात् प्रथमतः अग्निलोपाप्तिरुपपन्ना । स वायुलोकम् । यद्यप्यत्राग्निलोकानन्तरं वायुलोकः श्रूयते, तथापि श्रुत्यन्तरे, अर्चिषोऽहरह्न आपूर्यमाणपक्षमा पूर्यमाणपक्षात् यान् ब्रह्मविदा चन्द्रप्राप्तेः प्रागेव देवयानगताग्निलोकादेः प्राप्तत्वात् प्रश्नप्रतिवचनानन्तरं देवयानोपक्रमायोगात् अग्निलोकादिकीर्तनस्यान्यमाशयं दर्शयति आदित आरभ्यार्चिदीनि । , - -