पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

" कौषीतक्युपनिषत्प्रकाशिका स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स षण्मासानुदङ् आदित्य एति मासेभ्यो देवलोक' मिति देवलोक [शब्द !] निर्दिष्टस्य वायुलोकस्य उदगयनादूर्ध्वं श्रवणात् उदगयनादूर्ध्वमेव वायुलोको निवेश्यः । तत्राप्युदगयनादूर्ध्वं छान्दोग्ये, 'मासेभ्यः संवत्सर । मिति श्रवणात् , अधिककालानां न्यून- कालादूर्ध्वं निवेशस्य, 'अह्न् आपूर्यमाणपक्षनापूर्यमाणपक्षाद्यान् षण्मासानुदादित्य एती ' त्यत्र दृष्टत्वात् उदगयनापेक्षश्च अधिककालस्य संवत्सरस्य तदूर्ध्वनिवेशः सिद्धः । स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकमितीदं वाक्यं अचिरादिपादे चिन्तितम् । 'संवत्सरादादित्यमादित्याचन्द्रमस ' मिति छान्दोग्ये, 'यदा वै पुरुषोऽऽस्माल्लोकात् प्रैति स वायुलोकमागच्छति । स तत्र विजिहीते, यथा रथचक्रस्य खम् । तेन स ऊर्ध्वमाक्रमते । स आदित्यमागच्छति। तस्मै स तत्र विजिहीते यथा डम्बरस्य खम् । तेन स ऊर्ध्वमाक्रमते । स चन्द्रमसमागच्छती तिबृहदारण्यके च श्रुतत्वात् संवत्सरादूर्ध्व चन्द्रमसः प्राक् आदित्यस्य निवेशः सिद्धः । तत्र च वरुणेन्द्रप्राजापतीनामपि पठितानां पाठार्थवत्त्वाय क्वचिन्निवेशे कर्तव्ये, वायुलोके वरूणलोकमिति पाठक्रमानुसारेण वायोरूर्ध्वं वरुणो निवेशयितव्यः । इन्द्रप्रजापती अपि तदनन्तरं निवेशयितव्यौ न च, आदित्यलोकम् , इन्द्रलोकं प्रजापतिलोकमिति पाठक्रमादादित्यादूर्ध्वं चन्द्रात् प्रागेव निवेशोऽस्त्विति वाच्यम् – आदित्याच्चन्द्रमस ' मिति आदित्यादूर्घ्वं चन्द्रस्य श्रवणेन तत्क्रमबाधप्रसङ्गात् । न च चन्द्रादूर्ध्वं तयोर्निवेशोऽस्त्विति वाच्यम् - 'चन्द्रमसो विद्युत' मिति श्रुतिक्रमबाधप्रसङ्गात् । ननु 'देवलोकादादित्यामिति देवलोकशब्दितवायोरादित्यस्य च क्रमस्य श्रुतत्वात् तत्रेद्रप्रजापत्योर्निवेशे तत्क्रमभङ्ग स्यादिति चेन्न --- वाय्वादित्ययोरन्तराले वरुणस्य निवेशनीयतया तेनैव वाय्वादित्ययोरानन्तर्यस्य भग्नतया तत्रैवेन्द्रप्रजापत्योरपि निवेशः । अतश्च वरुणेन्द्रप्रजापतीनां त्रयाणामपि वाय्वादित्ययोरन्तराल एव निवेशोऽस्त्विति प्राप्ते. अत्र, 'मुमुक्षुरयं चन्द्रलोकफलानन्तरमेव देवयानं प्रति आयाति । पूर्वं तु मार्गान्तरेग चन्द्रं प्राप्तः। अतो देवयाने यावत् उपरिततनलोकस्थितेन गन्तव्यम् , तावतो वर्त्मन एव तं प्रति अयता इति .. -- 1 ,