पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को.१. ब्रह्मलोकम् ॥ २१ ॥ उच्यते. "तटितोऽधि वरुणः संबन्धात् " । तटित ऊर्ध्वं वरुणस्य निवेशः । कुतः ? संबन्धात् । विद्युद्वरुणयोः द्वयोरपि मेघोदरवर्तित्वरूपसंबन्धसत्त्वात् विद्युत ऊर्ध्वं वरुणस्य निवेशः । ततः परस्तात् इन्द्रप्रजापत्योर्निवेशः । तथा हि सति, 'देवलोकादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युत ' मिति निबद्धोऽपि क्रमो न बाधितो भवति । न चैवं विद्युत ऊर्ध्वं वरुणेन्द्रप्रजापतीनां निवेशे तेषामेव ब्रह्मगयितृत्वेन, ' तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयती ति वैद्युतपुरुषस्य गमयितृत्वं श्रुतं विरुद्धयेतेति वाच्यम् ---वरुणेन्द्रप्रजापतीनाम [त्र!] गमयितृत्वेऽपि वैद्युतपुरुष- स्याप्यनुग्राहकतया गयितृत्वसंभवादिति स्थितम् । प्रकृतमनुसरामः ॥ (२१) ।। -- न मन्तव्यम् । अग्निलोकादिकमप्यनेन प्रागाप्तमेवेति ज्ञापयितुमेवं वाक्यमिति भावः । तथाच आगच्छतीति वर्तमानकालो न विवक्षित इति । अत्र एतमिति देवयानविशेषणात् , अग्निलोकमागच्छत स वायुलोक -- स ब्रह्मलोकमिति श्रुतिप्रसिद्धमेतं देवयानं पन्थानं स आपद्य इत्यन्क्ष्योऽपि स्यात् । तदा एतदुपरि, वर्तत' इति शेषो वा, वाक्यस्यास्य तमित्थंविदागच्छतीति वक्ष्यमाणेनैकवाक्यता वा भवितुमर्हति । अत्रोपनिषदि यथायथमन्वयकल्पनं 'छन्दत उभयाविरोधात् " इति सूत्रेण दर्शितमेव । अर्चिरािदिमार्गे कतिपयमात्रनिर्देशोऽयमन्योपलक्षकः । तथाच अग्निलोकानन्तरं वायुलोकात् प्राक् दिवसज्योत्स्नापक्षोत्तरायणवत्सराणां ग्रहणम् । वायोरनन्तरं वरुणात् प्राक् आदित्य चन्द्रवैद्युतानां ग्रहणम् । एवञ्च वरुणलोकानन्तरमादित्यलोकपाठोऽत्र कृतो नैव क्रमसाधकः । स पूर्वमाकष्टव्यः, प्रमाणान्तरानुसारात् । अत्रैवम् , स आदित्यलोकमिति पाठः किं सर्वकोशेषु, उतान्यथाऽपि पाठ इति विचारो वर्तितो भावप्रकाशिकायाम् । वरुणाधिकरणे तु श्रीभाष्ये अत्र श्रुतानां निवेशक्रमयाथात्म्यं यथापाठं प्रकृतवाक्यग्रहणेनेत्थं शोषितमस्ति, " अत्राग्निलोकशब्दस्यार्चि:पर्यायत्वेन प्राथभ्यमविगीतम् । पायोश्च संवत्सरादूर्ध्वं निवेश उक्तः । आदित्यस्याप्यत्र प्राप्तप्राठक्रमबाधेन, 'देवलोकादादित्यमिति वाजसनेयकोक्तश्रुतिक्रमात् देवलोकशब्दामिहितात् वायोरूपरि निवेश: सिद्धः । इदानीं वरूणेन्दप्रजापतिषु चिन्ता" इति । तत् सिद्धम् - उपासकस्य चन्द्रलोकात् प्रागेव देवयानमार्गे प्रविष्टतया नेदं चन्द्रकृतातिसर्वानन्तरं देवयानप्रथमप्रवेशबोधकमिति, नापि यथावस्थितातिवाहिकत्वामनुरूध्य प्रवृत्तमिति च। , . 3