पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतवयुपनिषत्प्रकाशिका 'तस्यारो ह्रदो मुहूर्ता यष्टिहाः ।। २२ ।। 'विरजा नदी ॥ २३ ॥ 'तिल्यो वृक्षः ॥ २४ ॥ सालज्यं संस्थानं ।। २५ अपराजितमायतनम् ॥ २६ ॥ इन्द्रप्रजापती द्वारगोपौ ॥ २७॥ विभुप्रमितम् ॥ २८ ।। 1. तस्य हवा एतस्य ब्रह्मलोकस्यारो. 2. येष्टिहाः, 3. विजरा. 1. इल्यो 5. विभुं प्रमितम् । तस्यारो हृदो मुहर्ता यष्टिहाः । तस्य ब्रह्मलोकस्य समीपे अरसंज्ञको हृदः । छान्दोग्ये, 'अरश्च ण्यश्चार्णवौ ब्रह्मलोके ऐरम्मदीयं सरः' इति सरस्त्रयमुक्तम् । ततः परस्तादविदुरे मुहूर्तसंज्ञकाः यष्टिहाः । यष्टिभिः अब्रह्मविदो गन्तृन् घ्नन्तीति यष्टिहाः ॥ २२ ॥ विजरा नदी। विजरेतिसंज्ञावती नदी । विरजा नदीत्यपि राठोऽस्ति । जरारजोविरोधित्वात् विजरा विरजेत्युच्यते ॥ २३ ॥ तिल्यो वृक्षः । ततोऽविदूरे तिल्यसंज्ञिको वृक्षः । छान्दोग्ये, 'तदश्वत्थः सोमसवनः' इति सोमसवनसंज्ञकोऽश्वत्थो वृक्ष उक्तः ॥ २४ ॥ सालज्यं संस्थानम् । सालज्यनामक संस्थानं स्थानीयम् । 'स्थानीयं निगमो ऽन्यत्तु यन्मूलनगराद्बहि' रित्यमरः । सालेषु प्राकारेषु ज्या युद्धसाधनं यस्य तत् सालज्यम् ॥ २५ ॥ अपराजिवमायतनम् । अपराजिता पू: ब्रह्मण' इति श्रवणात् अपराजितसंज्ञकमायतनं पुरमित्यर्थः । अब्रह्मविद्भिर्न जीयतइत्यपराजितम् ॥ २६ ॥ इन्द्रप्रजापती द्वारगोपौ । इन्द्रप्रजापतिसंज्ञकौ पट्टणद्वारपालकौ ।। २७ ।। विभुप्रमितम् । अत्र मण्टपमिति शेषः । विभुत्वेन अतिविस्तृतत्वेन प्रमितं हिरण्मयमण्टपमित्यर्थः। 'प्रभुविमितं हिरण्मय । मिति छान्दोग्योक्तेः ॥२८॥ उपासकस्योपासनफलं ब्रह्मलोकप्राप्तिपर्यन्तमेतावतोक्तम् , अथ ब्रह्मपर्यङ्कारोहणान्तं तद् वक्ष्यते, यदनन्तरमेवास्य परिपूर्णब्रह्मानुभवः । तदर्थमत्र स्थितान् विशेषान् निर्दिशति तस्येत्यादिना । ) ,