पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

- - ११२ श्रीरङ्गरामानुजनानविरचितभाष्ययुक्ता विचक्षणा आसन्दी ॥ २९ ॥ अमितौजाः पर्यङ्कः ॥ ३०॥ प्रिया च मानसी प्रतिरूपा च चाक्षुषी पुष्पाण्य'पचयतः(?) ॥ ३१ ॥ यतो वै च जगत्यम्बाश्चाम्बावयसा श्वाप्सरसोऽम्बयानद्यः । तमित्थंविदागच्छति ॥ ३२ ॥ तं ब्रह्माह अभिधावत मम यशसा विरजां (विजरां) वा ऽयं नदीं प्रापत् । न वाऽयं 'जिगीष्यतीति (जरयिष्यतीति) ॥ ३३ ॥ 1. पुष्पाण्यादायावयतो. अम्बावयवाश्च (जगान्यम्बाश्चाम्बायपश्च) 3.जनिष्यतीति । विचक्षणा आसन्दी। विचक्षणसंज्ञिका असन्दी धर्मादिपीठमित्यर्थः ॥२९ अमितौजाः पर्यङ्कः । अमितौजा नाम योगपर्यङ्कः ॥ ३० ॥ प्रिया च अपचयतः ? । मनोधिष्ठात्री नाम्ना प्रिया च, चक्षुरधिष्ठात्री नाम्ना प्रतिरूपा च पुष्पाणि अपचयतः (१) कुसुमानि देव्यौ ॥ ३१ ।। तमित्थेविदागच्छति । तादृशब्रह्मलोकमेतादृशस्वरूपविदागच्छति॥३२॥ तं ब्रह्माह-जिगीष्य (?) तीति । यूयं तं ब्रह्मविदमागच्छन्तममिधावत् अभिगच्छत = प्रत्युत्थानं कुरुत । मम यशसा ममानुग्रहेणायं ब्रह्मवित् विरजां नदी विरजानदीसमीपं प्राप्तवान् । विरजानदी [ समीपदेश ? ] संबन्धात् इतःपरं विरजामेष्यतीति परमात्मा अप्सरसः प्रतिवदतीत्यर्थः ॥ ३३ ॥ अपचयत इति । चिञ् चयने । चुरादिः । ञित्करणसामर्थ्यात् णिज्विकल्पः । यतो वै इत्यादिभागस्य भाष्यं न दृश्यते। तदर्थश्व प्रियादिवत् यत्र सर्वजगदम्बाभूता अन्याश्च स्त्रियः सन्ति, तथा तदंशभूताः अम्बया मुख्यभूतया नद्यः प्रमोदकोलाहलं कुर्वत्यः अप्सरसश्च सन्तीति । तमित्यादि । अत्र नदीं प्रापदिति प्रयोगात् मुक्तस्य विरजानदीप्राप्त्यनन्तरमेव ब्रह्मणा अप्सरसा प्रेरणनिति ज्ञायते । अप्सरोभिः क्रियमाणोऽलङ्कारश्च मुक्तस्याप्राकृतविग्रहहे, न तु प्राकृतभूतसूक्ष्मे । एवं ब्रह्मालङ्कारेणालङ्कृतो ब्रह्मैवाभिप्रतीत्युक्तम् ; न तु, अलंकृत आगच्छत्यरं हृदमिति । अतः तं ब्रह्माहेत्यतः प्रागेव स आगच्छत्यरं हृदमित्यादिः तां मनसवात्येति इत्यन्तो भागो योज्यः, अर्थक्रमानुसारात् । यस्तु तदुपरि तत् सुकृतदुष्कते धूनुते इत्यादिः विदुष्कृतो ब्रह्मविद्वान् ब्रह्मैवाभिप्रैतीति भागः, स स्वस्थानेऽन- न्वितः; सुकृतदुष्कृतधूननादेः विरजानद्यतिक्रमणपश्चाद्भावित्वाभावात् ; स्थूलदेहवियोगकालिकत्यात् , .. , -