पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

" कौषीतक्युपनिषत्प्रकाशिका ११३ तं पञ्च शतान्यप्सरसां प्रतिधावन्ति, शतं मालाहस्ताः, शतमञ्जनहस्ताः, शतं चूर्णहस्ताः, शतं वासोहस्ताः, शत'फणहस्ताः, तं ब्रह्मालङ्कारेणालंकुर्वन्ति । स ब्रह्मालङ्कारेणालंकृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति ॥३४॥ स आगच्छत्यरं ह्रदम् । तन्मनसाऽत्येति । तमृत्वा संप्रतिविदो मञ्जन्ति ॥ ३५ ॥ 1. कणा, 2. आगच्छत्यारं. तं पञ्च शतानि-अभिप्रैति । फणः भूषणम् । ब्रह्मैवाभिप्रेति । ब्रह्मदर्शनोत्सुक एव भवति ; नाप्सरसंभाषणवासोभूषणादिषु सादर इत्यर्थः । शिष्टं स्पष्टम् ॥ ३४ ॥ स आगच्छति मञ्जन्ति । तमृत्वा तं हृदं प्राप्य संप्रति इदानीमपि विदः ज्ञानिनः मञ्जन्ति स्नान्तीत्यर्थः ।। ३५ ॥ स एतं देवयानं पन्थानमापद्येति प्रथमश्रुतवाक्यात् प्राक् स घटनीय इपि साम्परायाधिकरणे, “ छन्दत उभयाविरोधात् " इति सूत्र एव स्थितम् । स आगच्छति तिल्यं वृक्षमिति तदनन्तर श्रुतवाक्यार्थस्तावत् ब्रह्मालङ्कारेणालङ्कारणानन्तरमेव भवतु । अस्तु वा तिल्यवृक्षप्राप्त्यनन्तरमेव अप्सरसां प्रत्युद्गतानां प्राप्तिः । अत्र छान्दोग्योक्तयोरैरम्मदीयसरस्सोमसवनाख्याश्वत्थयोरपि यथायथं घटनं युक्तम् । सोऽश्वत्थ एवायं तिल्य इत्यपि विमृश्यम् । सर्वमिदं सूक्ष्मं विभाव्यैव श्रीमति रहस्यत्रयसारे, गतिविशेषाधिकारे, ' विरजापारं प्रापस्य अप्राकृतशरीरं प्रदाय ऐरम्मदीयं सरः संगमय्य सोमसवनाख्यमश्वत्थमुपगमय्य मालाञ्जनादिहस्ता प्सरसः प्रत्युद्गमय्य ब्रह्मालङ्कारेणालङ्कार्य ब्रह्मगन्धरसतेजांसि प्रवेश्य' इति क्रमः श्रीदेशिक- चगैर्दशित इति तदवधानेनेहार्थक्रमविन्यासो भाव्यः । विरजां नदीं प्रापदित्यस्य प्रकृतभाष्योक्तरीत्या विरजानदीसमीपं प्राप्तवानिति समीपदेशप्राप्तिरूपार्थविवक्षया सागच्छति विरजं नदीमित्यादिवक्ष्यमाणवाक्यसामञ्जस्यसंपादनेऽपि अत्राप्सरःक्रियमाणालङ्कारादिवर्णनं हि न प्रकृतशरीरे घटते इति ध्येयम् । संतिविदो मज्जन्तीति । सम्प्रतिशब्दस्य सभ्यगित्यर्थः श्रुतिप्रसिद्धः छान्दोग्ये वैश्वानरादिविद्यासु दृष्टश्च । अतो यथावस्थितपरावरतत्त्ववेदिन इति संप्रतिविद इत्यस्यार्थः स्यात् । अस्तु तावत् केऽप्यर्थः । के ते मज्जनकर्तारः । न हि नित्यमुक्तानां मज्जनं पावनमपेक्षितम् ; न च विरजादि नेदिष्टं बिहायात्र मज्जने विशेषगमकं किश्चिदिति चेत् - सन्त्वेते संप्रति विदः सनकसनन्दनादयः माहात्म्यबलात् केनापि मार्गेण प्रकृतिमण्डलमतिक्रम्य तत्संनिहितेऽत्रारे शुद्धयर्थ तदा तदा समागत्य मज्जनकर्तारः। ततः परं तु परमपदे न ते गन्तुं प्रभवन्ति, यत्र मूहूर्ताः यष्टिहा अमानवनानीतप्रतिषेद्धारो जाग्रति । 15