पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौ. १. " श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स आगच्छति मुहूर्तान् ' यष्टिहान् तेऽसादपद्रवन्ति ॥ ३६॥ स आगच्छति विरजां नदींम् । तां मनसैवात्येति । तत् सुकृतदुष्कृते धूनुते । 1. येष्टिवान्, स आगच्छति मूहूर्तान् – अपद्रवन्ति । तमनिरून्धानाः दूरतो गच्छन्तीत्यर्थः || ३६ ॥ तत् सुकृतदुष्कृते धूनुते । तत् तदैवेत्यर्थः । अयञ्च तच्छब्दः नाव्यवहितविरजानद्यतिक्रमणकालवाची । अपि तु, 'ये वै के चास्माल्लोकात् प्रयन्ती' ति वाक्यनिर्दिष्टप्रयाणकालवाची । इदश्च वाक्यं गुणोपसंहारपादे चिन्तितम् . कौषीतकिनामुपनिषदि, 'विरजां नदीं मनसा अत्येति तत् सुकृतदुष्कृते धूनुते' इति विरजानद्यतिक्रमणहेतुतया तदनन्तरभाविसुकृतदुष्कृतधूननश्रवणात्, अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धृत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानी' ति, 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम् ' इति च श्रुत्या देहवियोगसमकालतया सुकृतदुष्कृतहानसंक्रमणयोः श्रवणात् कर्मैकदेशस्य देहवियोगकाले नाशः, शेषस्य विरजानाद्यतिक्रमणानन्तरं नाश इति प्राप्ते उच्यते--"सांपराये तर्तव्याभावात् तथा अन्ये " सांपराये-देहापक्रमणकाल एव सकृतदुष्कृतविनाशः । ततः ऊर्ध्वं तत्साध्यस्य तर्तव्यस्यप्राप्तव्यस्य सुखदुःस्वानुभवरूपफलस्याभावात् । तथा ह्यन्ये शाखिनः ब्रह्मविदः शारपरित्यागानन्तरं ब्रह्ममाप्तिव्यतिरेकेण कर्मफलानुभवाभावमधीयते, 'तस्य तावदेव चिरम्, यावन्न विमोक्ष्येऽथ संपत्स्ये ' इति । " छन्दत उभयाविरोधात् ।। अर्थस्वाभाव्यादेहवियोगकाल एवं कर्मनाश इति निश्चिते तयोरविरोधाय, 'विजां नदीं मनसा अत्येति तत् सुकृदुष्कृते धूनुते' इत्यस्य वाक्यस्य तच्छब्दस्य कृदतः यथेष्टमन्वयोऽङ्गीकर्तव्यः । “गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः" । सुकृतदुष्कृतैक- तत् सुकृतदुष्कृते धूनुत इत्यादिकं, स एतं देवयानमितिवाक्यात् प्राग् योजनीयमिति प्रागेवोक्तम् । अस्यात्र पाठस्तु विरजातिक्रमणान्तरभावि ब्रह्मालङ्काराहमस्य शरीरं न कर्माधीनम् , किंतु अप्राकृतमिति ज्ञापनार्थः । -4