पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति; अप्रिया दुष्कृतम् ॥ ३७॥ देशस्य देहवियोगकाले हानिः, शेषस्याध्वनि हानिरित्यभ्युपगम एव देवयानगतिश्रुतेरर्थवत्त्वम् । इतरथा हि देहवियोगकाल एव सर्वकर्मक्षये सूक्ष्मशरीरस्थापि नाशेन केवलस्याऽऽत्मनो देवयानासंभवेन देवयानश्रुतेरर्थशून्यत्वमेव स्यादित्यर्थः । उत्तरमाह --." उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् " | देहोत्क्रान्तिकाल एव सर्वकर्मक्षय उपपन्नः । क्षीणकर्मणोऽपि विदुषो विद्यामाहात्म्यात् सूक्ष्मदेहानुवृत्तिसंभवेन देवयानगमनसंभवात् । यथा लोके सस्यादिसमृद्ध्यर्थ्यमारब्धेऽपि तटाकादिके, सस्यादिसमृद्धीच्छायां तटाकादिनिर्माणहेतुभूतायां नष्टायामपि, पानीयपानाद्यर्थतया तटाकादिः स्थाप्यते, एवं कर्महेतुकसूक्ष्मदेहो नष्टेऽपि कर्मणि विद्याफलाय स्थाप्यत इत्यर्थः । ननु देहवियोगकाल एवं कर्मनाशे ब्रह्मविदां वसिष्ठावान्तरतपःप्रभृतीनां पुत्रजन्मादिनिमित्तसुखदुःखानुभवो न स्यादित्यत्राह - " यावदधिकारमवस्थितिराधि- कारिकाणाम् "। आधिकारिकाणां वसिष्ठादीनां यावदधिकारं कर्मावतिष्ठते ; प्रारब्धस्य भोगैकनाश्यत्वादिति स्थितिः (तम्)। प्रकृतमनुसरामः । तस्य-दुष्कृतम् । ब्रह्मविदः इष्टानिष्टफलदित्सालक्षणपरमात्मप्रीत्यप्रीतिरूपसुकृतदुष्कृतयोश्चतस्रोऽवस्थाः श्रुताः - विनाशः अश्लेषः धूननम् उपायनञ्चेति । विनाशः पूर्वाघविषयः । कर्मफलदित्साप्रतिबन्धलक्षणोऽश्लेष उत्तराधविषयः । तौ च-यद्ययमुपासकः प्रक्रान्तमुपासनं समापयेत्, पूर्वोत्तरयोः कर्मणोः फलं न दास्या- मीत्येवं भगवत्संकल्परूपौ उत्तरपूर्वाघाश्लेषविनाशौ दर्शनसामानाकारज्ञानारम्भ एव " तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ इति सूत्रोक्तन्यायेन भवतः । अन्तिम- सूक्ष्मदेहानुवृत्तीति । ननु सस्याद्यर्थतया समारन्धस्य तटाकस्य पानीमाद्यर्थतया पश्चात् स्थापनवत् किमर्थमारब्धः सूक्ष्मदेहो विद्यामाहात्म्यात् स्थाप्यते ? न च वेदान्तिमते सांख्यमत इव सकलसृष्टिकालिकशरीरानुकृत सूक्ष्मशरीरं किश्चिदस्ति, तदभावस्याधिकरणसारावलौ स्पष्टमुक्तेः । यथा, कल्पादौ भूतसूक्ष्मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि । लिङ्गाख्यं भस्त्रिकान्तःपरुवकवदवस्थायि सोख्यैः प्रगीतम् सूक्ष्मांशः पूर्वभूर्तेरुपरितनतनोर्बीजमत्रेष्यते तत् ॥ (४८६)