पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को.१. [तत्] यथा रथेन 'धावन् रथचक्रे पर्यवेक्षते, एवमहोरात्र पर्य: वेक्षते । एवं सुकृतदुष्कृते, सर्वाणि च द्वंद्वानि ।। ३८ ॥ स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति ॥ ३९ ॥ स आगच्छति तिल्यं वृक्षम् ; तं ब्रह्मगन्धः प्रविशति । स आगच्छति सालज्यं संस्थानम् तं ब्रह्मरसः प्रविशति । स आगच्छति अपराजितमायतनम् ; तं ब्रह्मतेजः प्रविशति ! स आगच्छतीन्द्रप्रजापती द्वारगोपौ; तावस्मादपद्रवतः । स आगच्छति विभुप्रमितम् ; तं ब्रह्मयशः प्रविशति॥४०॥

1. धावयन्. , -- प्रत्ययपर्यन्तोपासननिवृत्त्यनन्तरम् , विनष्टाश्लिष्टयोरेव कर्मणोः, फलं नैव दास्यामीति संकल्परूपं विधूननं देहवियोगकाले भवति । तस्मिन्नेव समये एतदीयप्रियाप्रियजनेषु एतदीयसुकृतदुप्कृतानुरूपेष्टानिष्टफलदित्सालक्षणमुपायनञ्च भवति ।। ३७ ।। यथा-द्वन्द्वानि । यथा रथेन धावन् पुरुषः स्वयं निर्व्यापार एव सन् व्याप्रियमाणरथचक्रादिकं साक्षितया पश्यन् गमनक्रियाजनितशरीरायासादिशून्यस्सन् हृष्टो भवति । एवं प्रवर्तमानकालचक्रं सुकृतदुष्कृततत्साध्यद्वंद्वपरम्परां स्वानन्वितामेव पश्यन् निर्दुःखसुखमास्ते ।। ३८ ॥ स एषः अभिप्रैति । स्पष्टोऽर्थः ।। ३९ ।। स आगच्छति ---- | यथा प्रभाते अनुकलं आदित्यादिसामीप्यातिशयकृतं प्रकाशाधिक्यम् , एवं देशविशेषविशिष्टब्रह्मसान्निध्यातिशयानुकलसमेधमानविकासा- वस्थाविशेषाः ब्रह्मगन्धब्रह्मरसादिशब्दरभिलप्यन्ते । ब्रह्मणः सर्वगन्धत्वादेः, 'सर्वगन्धस्सर्वरसः' इति प्रतिपन्नत्वात् यथाश्रुतार्थग्रहणेऽपि न दोषः । अपद्रवतः तस्मै मार्ग प्रयच्छत इत्यर्थः ।। ४० ॥ इति इति चेत् उच्यते । कर्मफलानुभवार्थ कल्पितं यत् चरमं स्थूलशरीरं मुमुक्षोः प्रस्थानात् पश्चाद् भस्मादिभावमापत्स्यमानम् , तस्य कश्चिदंशः पूर्व स्थूलशरीरे फलानुभवाय- तनतयोपयुक्तः संप्रति गत्याद्यौपयिकतया विद्यया स्थाप्यते स्थूलदेहेन सह भस्मताद्यनापादनेन । अयश्च चरमशरीरांशः न कस्यचिद्देहस्य बीजभूतः, उपरि प्राकृतदेहप्रसक्त्यभावात् । अतोऽयं सूक्ष्मांशो न भाविफलानुभवोपयोगीति । एवमहोरात्रे इति । रथेन गच्छतः रथचक्राधीनभ्रमणानाश्रयत्ववत् अहोरात्रादिद्वन्द्र व्यापारानालीढत्वमस्येति भावः।