पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

यत्सृष्टाशेषजग्धेरदितिरसि स संवत्सरो यस्य चात्मा निष्प्राणोच्छूनदेहात् तव स परिणतोऽश्वोऽश्वमेधः स सूर्यः ॥ २० ।

अण्डान्तं साशनायो विधिमपि सकलं वेदमुख्यं च कृत्वा ह्यत्ता यज्ञाग्र्यकामो व्यभज इह पशून् देवताभ्यस्तमश्वम् । तुभ्यं पत्ये प्रजानामिति निखिलमयी देवतैकाऽसि मृत्युः यस्त्वेवं वेद मृत्युं जयति भवति तद्देवतास्वेक एषः ॥ २१

इच्छत्यात्मामृतत्वं क्रतुकृति जपतः श्रीनिवास ! त्वदाप्त्यै अभ्यारोहस्य वाञ्छां स्फुटयति पवमानोक्त्युपक्रान्तिकाले । उद्गाता सर्वदोषक्षपणपरिबृढपाणदृष्टयाऽऽत्मनीदं तस्मा आगायतीष्टं स्वकफलमितरस्तोत्रकाले तथाऽन्नम् ।।

सर्वाहङ्कृत्समष्टिः स्वयमहमभिमत्याश्रयस्तेन मर्त्यः देहाहंधीवहानां सृजिकृदहमभिख्यो विधिर्योऽञ्जनेश ! । तद्रूपः सृष्टिशब्द्यं त्रसमिह विबुधाख्यां विसृष्टिश्च तत्तः श्लाध्यं धत्सेऽतिसृष्टिं सनकमुखमिदवित्तु तुल्योऽतिसृष्टया ।। २३

मुख्याहन्त्वोऽहमानिति दधदतिसृष्टद्येव संचिन्त्यसेऽहं ब्रह्मास्मीत्येव पूर्वो वृजिनदहनकृत् पूरुषो वेङ्कटेश! । आत्मान्यत् प्रागदृष्ट्वा सृजिकृदपि भवेर्निर्विकारोऽपि सर्वः तत्तच्छब्दार्थभावोद्भवकर इह यत् स्थूलसूक्ष्मप्रविष्टः ॥ ९४

श्रीमन् ! आत्मेत्युपास्य प्रियतममनघं त्वां विनाऽन्यत् किमर्थ्यम् ? यस्त्वामन्यं स्वमन्यं कल्यति न स वेदैष भृत्यः सुराणाम् । भेतन्यं नैव देवास्त्वदनुभवहतिं कुर्युरित्येषु हि त्वं चातुर्वर्ण्य मनुष्येष्विव कलयसि तत् सन्त्यमी धर्मयम्याः ॥ ९५

वेधोरुद्रातिशायि प्रबलमपि फलं तोषिता भीषिता वा दद्युर्देवास्तपश्चेदिति मतिरपि न श्रेयसी श्रीनिवास ! ।