पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

११७ कौषीतक्युपनिषत्प्रकाशिका समागच्छति विचक्षणामासन्दीम्; बृहद्रथन्तरे सामनी पूर्वौ पादौ । इनौधसे चापरौ पादौ । वैरूपवैराजे शाक्कररैवते तिरश्ची । सा प्रज्ञा प्रज्ञया हि विपश्यति ॥ ४१ ॥ सप्रागच्छत्यमितौजसं पर्यङ्कम् । स प्राणः ॥ ४२ ॥ तस्भूतं च भविष्यच्च पूर्वौ पादौ । श्रीश्च इरा चापरौ ॥४३॥ बृहरथन्तरे अनूच्ये॥४४॥ भद्रयज्ञायज्ञीये शीर्षण्ये ॥४५॥ ऋश्च सामानि च प्राचीनाततम् ॥ ४६ ।। यो तिरश्चीनानि ॥४७॥ सोमांशव उपस्तरणम् ॥ ४८॥ उद्गथ उपश्रीः ॥ ४९ ॥ श्रीरुपबर्हणम् ॥ ५० ॥ 1. शंण्यम् . सा प्रज्ञा प्रज्ञाधिष्ठत्री देवता । तत्संबन्धादयं सर्वं पश्यती त्यर्थः ॥ ४॥ प्राः प्राणाभिमानीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ४२ ।। तस्पर्यङ्कस्य चतुरोऽपि पादानाह तस्य-अपरौ भूतभविष्यत्कालैश्चर्यान्नाभिमानिदेवताश्चत्वारः पादाः ।। ४३ ।। बृहथन्तरे अनूच्ये । बृहद्रथन्तराख्ये सामनी अनूचीनदारुणी इत्यर्थः ॥ ४ ॥ भद्रज्ञायज्ञीये शीषण्ये । भद्रयज्ञायज्ञीयाख्ये सामनी तिरश्चीनदारुणी ॥ ४ ॥ प्राचीनाततं पर्यङ्कतता दीर्घाः तान्तवरज्जुविशेषाः ॥ ४६ ॥ तिचीनानि तिर्यक्ततरज्जुविशेषाः ॥ ४७ ।। सोमांशव उपस्तरणम् । चन्द्रकिरणा एवास्तरणम् ॥ ४८ ॥ उद्गथ उपश्रीः। श्रीसमीपे वर्तमानमास्तरणमुद्गीथः ।। ४९ ॥उपबर्हणं पादोपधानम् ॥ ५० ॥ -