पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङगरामानुजमुनिविरचिनभाष्ययुक्ता तस्मिन् ब्रह्मास्ते । तमित्थंवित् पादेनेवाग्र आरोहति । तं ब्रह्माह, कोऽसीति । तं प्रतिब्रूयात् ॥ ५१ ॥ ऋतुरस्म्यार्तवोऽस्मि ॥५२॥ आकाशाद्योनेः संभूतो भयायैतत्संवत्सरस्य तेजोभूतस्य भूतस्य भूतस्यात्मा त्वमात्माऽसि । यस्त्वमसि सोऽहमस्मीति ॥ ५३ ।। [आत्मासीति । ] ५४ ॥ 1. भार्यायै रेतः संवत्सरस्य. 2. भूतस्य भूतस्यात्मभूतस्य. तस्मिन् --- प्रतिब्रूयात् । स्पष्टोऽर्थः ॥ ५१ ॥ अस्मि । अयञ्च मन्त्रखण्डः पाग्व्याकृतः ॥ ५२ ॥ आकाशाद्योनेः-- अस्मीति । अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशम् आकाशाद्वायुं वायुर्भूत्वा धूमो भवती ' ति श्रुत्युक्तरीत्या आकाशवाय्वादिक्रमेणावरुह्य “ योनेश्शरीर " मिति सूत्रोक्तरीत्या योनेस्संभूतोऽस्मि । भयायैतत् । एतत् भवनभयं (भवनं ?) भयहेतुः । संवत्सरस्य संवत्सरे तेजोभूतस्य रेतोभूतस्य भूतस्य भूतस्य सर्वभूतस्य त्वमात्मा पौनःपुन्येन श्रद्धासोमवृष्टयन्नरेतोरूपशरीरयुक्तस्य सर्वस्यापि जीवजातस्य त्वमात्मा । अतश्च प्रकृतिवियुक्तत्वं ब्रह्मात्मकत्वञ्च स्वस्योपन्यस्तं भवति । त्वदात्मकोऽहमियस्तं कालम् , अनेकजन्मसाहस्री संसारपदवीं व्रजन् । मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः' इति न्यायेन संसारे पतितोऽस्मीत्यर्थः ५३ ॥ मम कथमात्मत्वमित्यवाह --आत्मासि व्यापकोऽसीत्यर्थः । व्यापकत्वादात्मत्वमुपपद्यत इति भावः तं प्रतिब्रूयादिति । एवं प्रतिब्रूवतः "अनयाऽहं वशीभूतः कालमेत न बुद्धवान् । उच्चमध्यमनीचान्तां तामहं कथमावसे ॥ अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् । अनेन साम्यं यास्यामि नानयाऽहमचेतसा ।। क्षमं मम सहानेन ह्येकत्वं नानया सह ।" इति श्रीमद्रहस्यत्रयसारोद्धतवचनार्थो मनसि विपरिवर्तत इति मन्तव्यम् । • अनेक-