पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका तमाह कोऽहमस्मीति. सत्यमिति ब्रूयात् ॥ ५६ ॥ किं तत् यत् सत्यमिति ॥ ५॥ यदन्यत् देवेभ्यश्च प्राणेभ्यश्च,तत् वरन । अथ यत् देवाश्च प्राणाश्च तत् त्यम् । तदेतया वाचाऽभिव्याह्रियत पत्यमिति । एतावदिदम् । [सर्वमिदम् । ] सर्वमस्मीत्येवैनं तदाह । तदेतत् श्लोकेनाप्युक्तम् यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः । स ब्रह्मेति हि विज्ञेयः ऋषिर्ब्रह्ममयो महान् ।। इति । तमाह-केन [मे] पौंस्नानि नामान्याप्नोषीति । 'प्राणेनेति ब्रूयात् केन स्त्रीनामानीति । वाचेति । केन नपुंसकनामानीति । मनसेति ॥ ५९॥ . ॥ 1. तत् सत्यम् . 2. अभिव्यवह्रियते. 3. आप्नोतीति. तमाह यस्त्वमसि सोऽहमस्मीत्युक्तम् । अहं वा क इति पृच्छतीत्यर्थः ।। ५५॥ उत्तरमाह----सत्यमिति ॥ ५६ ।। पुनः पृच्छति किं तत् यत् सत्यमिति ॥ ५७ ॥ यदन्यत् -- तदाह । सदित्यनेन देवप्राणव्यतिरिक्तमुच्यते । त्यमित्यनेन देवप्राणाः । अतः सत्यमित्युक्त्या सर्व संगृहीतं भवति । ततश्च सत्यमस्मीत्युक्ते सर्वमस्मीत्युक्तं स्यादित्यर्थः । ततश्च सर्वेषामात्मैव मदात्मेत्यर्थः ।। ५८ ॥ देहेन्द्रियमनःप्राणज्ञानव्यतिरेकं प्रश्नोत्तरव्याजेन स्पष्टयति तमाह केन मे-। नपुंसकत्वादीनि गुणत्रयोन्मेषविशेषरूपाणि न तु आत्मस्वरूपगतानि । ततश्च तादृशधर्मयुक्तमनोवाक्प्राणनिष्ठान्येव नपुंसकत्वस्त्रीत्वपुंस्त्वानि । अतः तत्संबन्धादात्मनि लिङ्गसंबन्ध इति भावः । प्राणादीनां तृतीयानिर्देशेन करणत्वप्रतीतेः स्वस्य कर्तृत्वप्रतीतेश्च मनोवाक्प्राणव्यतिरेकः सिद्धः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ५९ ।।