पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौ. १. . १२० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता केन गन्धानिति । घ्राणेनेति ॥ ६० ।। केन रूपाणीति । चक्षुषेति । कन शब्दानिति । श्रोत्रेणेति केन' रसानिति । जिह्वयेति । केन कर्माणीति हस्ताभ्यामिति । केन सुखःखे इति । शरीरेणेति ॥ केनाऽऽनन्दं रति प्रजातिमिति । उपस्थेनेति ॥ ६२ ॥ केनेलवी इति । पादाभ्यामिति ॥ ६३ ॥ कन धियो विज्ञातव्यं कामानिति ॥ ६४ ॥ प्रज्ञयेति [प्र] ब्रूयात् ॥ ६५॥ तमाह-आपो वै खलु मे ह्यसावयं ते लोक इति ॥ ६६ ॥ सा या ब्रह्मणो जितिः 'या व्यष्टिः, तां 'जिति जयति तां व्यष्टि व्यश्नुते, य एवं वेद य एवं वेद ॥ ६७ ॥ इति कौषीतक्युपनिषदि प्रथमोऽध्यायः । 1. केनान्नरसानिति. 2. नीयन्ते 3. ब्रह्मणश्चितिः । 4. चितिं. घ्राणेनेति । घ्राणेन गन्धान् जानामीति ब्रूयादित्यर्थः । एवमुत्तरत्रापि यथायोग्यमन्वयः तत्तदिन्द्रियन्यतिरेकश्व बोध्यः ।। ६० ॥ शरीरेणेति । 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति श्रुतेः वैषयिकसुखदुःखयोः शरीरहेतुकत्वात् शरीरस्य च करणतया निर्देशः ।। ६१ ॥ प्रजातिः प्रजननम् ॥ ६२॥ इत्याः गमनानीत्यर्थः ।। ६३ ॥ ज्ञातव्यं कामान् ज्ञानविषयान् इच्छाविषयांश्चेत्यर्थः । ज्ञानेच्छादिकं केनाप्नोषीति पर्यवसितोऽर्थः ॥ ६४ ॥ प्रज्ञया मनसेत्यर्थः ॥ ६५ ॥ तमाह-लोकोऽसौ अमृतस्य (?) आपो भुज्यन्ते। तवाप्यसौ लोको भोग्य इत्यर्थः ।। ६६ ॥ सा या-य एवं वेद । अत्र वेदशब्दः उपासनपरः । उक्तपर्यङ्कविद्यानिष्ठो यः, स जितिं जयं व्यष्टिं योगञ्च लभते इत्यर्थः । -- --