पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ को.१. हृदयायतनत्वसेतुत्वलोकासंभेदहेतुत्वादिसामान्येन, “कामादीतरत्र तत्र चायतनादिभ्यः" इत्यधिकरणे सूत्रकृतैव समर्थितत्वात् । परैरपि तथा व्याख्यातत्वाञ्च । न च निर्गुणायामपि विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासंबन्धिगुणोपसंहारः संभवतीति वाच्यम् --- निर्गुणस्य परस्य ब्रह्मणो गुणवत्वेन अवरब्रह्मत्वेन प्रतिपादनस्य प्रत्युत निन्दात्वेन स्तुतित्वासंभवात् । अत एव, “ व्यतिहारो विशिंषन्ति हीतरवत् " इत्यत्र, तद्योऽहं सोऽसौ योऽसौ सोऽहं त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते' इत्यत्र संसारिण ईश्वरत्वचिन्तने, 'ब्रह्मदृष्टिरुत्कर्षात् " इति न्यायोऽनुगृहीतो भवति । ईश्वरस्य संसार्यात्मत्वचिन्तने निकर्षः प्रसज्येत । अतो द्विरूपा मतिर्न कर्तव्येति पूर्वपक्षं कृत्वा, आम्नानबलात् द्विरूपाऽपि मतिः कर्तव्या । नन्वेवमुत्कृष्टस्यापि निकर्षप्रसङ्ग इत्युक्तम् । तत् किमिदानी सगुणे ब्रह्मण्युपास्यमाने तस्य वस्तुतो निगुणस्य निकृष्टता भवति । ननु कस्मैचित् फलाय निर्गुणस्य गुणवत्तया ध्यानमात्रं क्रियते । न तावता तस्य निकृष्टता भवतीति चेत् -- इहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय ; न तु निकृष्टता भक्त्युत्कृष्टस्य ' इत्येवं निर्गुणस्य सगुणत्वे निकर्षप्रसक्तिमभ्युपेत्य, वस्तुतो निकर्षो नास्तीति शङ्करभाष्य- वाचस्पत्ययोर्व्याहृतत्वेन निन्दावहस्य गुणकीर्तनस्य स्तुत्यर्थत्वासंभवात् । किञ्च लोके हि स्तुतिविधेयरुच्युत्पादनेन सप्रयोजना । न चात्र निर्गुणस्य तज्ज्ञानस्य वा विधेयत्वमस्ति । न वा गुणवत्त्वेन स्तुतेर्निर्गुणप्रतिपत्युपयोगोऽस्ति । किञ्च निर्गुणविद्याम्नातवशित्वादिगुणानां न छान्दोग्यगतसगुणविद्यायामाध्यानायोपसंहारसंभवः । 'यत्र वशित्वादयः श्रूयन्ते, तत्रापि तेषां ध्येयत्वेना[न ? ] भिधानात् अन्यत्र गतानामपि न ध्येयत्वं संभवतीति तैरेवोक्तत्वात् । स्तुत्यर्थत्वमपि न संभवति ; सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वसिद्धया स्तुतेः सिद्धत्वेन सत्यकामत्वान्तर्भूतवशित्वकीर्तनेन स्तुतेर- संभवात् । कठवल्लोषु पराभिमतनिर्गुणब्रह्मप्रकरणे, ‘शतञ्चेका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति । इति उत्क्रान्तिगत्योः प्रतिपादनात् । निर्गुणविद्यात्वेन पराभिमतायां भूमविद्यायाम् , “स एकधा भवति त्रिधा भवती' ति अनेकशरीरपरिग्रहश्रवणेन निर्विशेषब्रह्मभावापत्तेरप्रतिपादनात् । न चास्य वाक्यस्य सगुणविद्यासु उत्कर्षः कल्पनीय इति वाच्यम् - ।