पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

, कौषीतक्युपनिषत्प्रकाशिका 'सर्व ह पश्यः पश्यति सर्वमाप्नोति सर्वशः' इति प्राक्प्रस्तुतस्यैव, ‘स एकधा भवतीति तच्छब्देन परामर्शेन तथोत्कर्षकल्पने प्रमाणाभावात् । तथा निर्गुणविद्यात्वेन पराभिमतप्रजापतिविद्यायाम् , “एष संप्रसादो ऽस्माच्छरीरात् समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । इति शरीरादुदत्कान्तेः श्रवणात् । न च शरीरात् समुत्थानं शरीरविविक्तात्मसाक्षात्कार इति वाच्यम् - ' अशरीरो वायुरभ्रं विद्युत् स्तनयित्नुः अशरीराणि यथैतान्यमुष्मादाकाशात् समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ' इति दृष्टान्तानुगुण्येनैव दार्ष्टान्तिकेऽष्यर्थस्य वर्णनीयत्वात् शरीरविविक्तात्मसाक्षात्कारस्यापदार्थत्वादवाक्यार्थत्वात् । तथा निर्गुणविद्यात्वेनाभिमतसद्विद्यायाम् , ' तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये ' इति प्रारब्धावसाने ब्रह्मसंपत्तिमुक्त्वा तदुत्तरखण्डे, 'यदाऽस्य वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्स्यां देवतायाम् ' इति ब्रह्मसंपत्त्यर्थतया उत्क्रान्तेः प्रतिपादितत्वाच्च । तथा वाजसनेयके षष्ठे तदभिमतनिर्गुणविद्यायामेव, “ अणुः पन्था विततः पुराणो मा स्पृष्टोऽनुवित्तो मयैव । तेन धीरा उपयन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वा विमुक्ताः' इति गतिप्रतिपादनाच्च । 'समाना चासृत्युपक्रमादमृतत्वं चानुपोष्ये " ति विद्वदविदुषोरुत्क्रान्तिसाम्यस्य सूत्रकृता कण्ठत एवं प्रतिपादिततत्वाच्च अर्चिरादिगतिः सगुणविद्याविषयेत्येतन्न प्रामाणिकानां हृदयमधिरोहति । " कार्यं बादरिरस्य गत्युपपतेः" इति नित्यपरब्रह्मविद एवार्चिरादिगतिरिति बादरिमतस्य, " परं जैमिनिमुख्यत्वा " दिति परब्रह्मापासकानामचिरादिगतिरिति जैमिनिमतापेक्षया प्राङ्निर्दिष्टस्य सिद्धान्तसूत्रत्वायोगात् । "चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः" "सुकृतदुष्कृते एवेति तु बादरिः," "उत्क्रमिप्यत एवम्भावादित्यौडुलोमिः", " अवस्थितेरिति काशकृत्स्नः ", स्वामिनः फलश्रुतेरित्यात्रेयः', " आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते " इत्यादिषु सर्वत्र पाश्चात्यस्यैव सूत्रकृदभिमतत्वदर्शनेन, "कार्यं बादरिरस्य गत्युपपत्ते " रिति बादरिमतस्य सिद्धान्तसूत्रत्वान्युपगमस्यासंगतत्वात् । निर्विशेषब्रह्मभावस्यैव मुक्तिरूपत्वे. “संकल्पादेव तच्छ्रुतेः ", " अभावं बादरिराह ह्येवम् ", " भावं जैमिनिर्विकल्यामननात् , द्वादशाहवदुभयविध बादरायणीतः” इत्यादीनाम् , " अनावृत्तिश्शब्दात् " इत्यन्ता- , 66 ,