पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता नामर्थशून्यतैः स्यात् । न च, “संकल्पादेव तच्छ्रुते" रिति सूत्रे, " इत उपरि सगुणविद्याफलपपञ्चः" इति कल्पतरुकारेणोक्तत्वात् सर्व सगुणविद्याफलभूतावान्तरमुक्तिविषयमिति वाच्यम् - यदि हि मुक्तिद्वैविध्यं सूत्रकृदभिमतं स्यात् , तर्हि, 'य आत्मा अवहतपाप्मे' त्यादिमुक्तौ ब्रह्मरूपाविविवाक्यमान्तरमुक्तिपरम् , 'एवं वा अरेऽयमात्मा अनन्तरोऽबाह्यः कृस्नः प्रज्ञानघन एवेति निरस्ताशेषप्रपञ्चबोधात्मकत्वेन स्वेन रूपेण निष्पत्तिप्रतिपादकं वाक्यं तु परममुक्तिपरमिति व्यवस्थायाः सुवचतया व्यावहारिकपारमार्थिकत्वाभ्यां व्यवस्थाप्रतिपादकत्वेन त्वदभिमतस्य, एवमप्युमन्यासात् पूर्वभावादविरोधं बादरायणः” इति सूत्रस्यासंगतिप्रसङ्गात् । तथा, ' अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति अशरीरत्वप्रतिपादकं वाक्यं परममुक्तिपरम् ; ‘स एकधा भवति त्रिधा भवती' ति शरीरयोगप्रतिपादकं वाक्यमवान्तरमुक्तिपर ' मिति व्यवस्थाया वक्तुं सुशकत्वेन सत्यामिच्छायां सशरीरत्वम् , अन्यदा अशरीरत्वमिति व्यवस्थाप्रतिपादकत्वेन त्वदभिमतस्य द्वादशाहवदुभयविधं बादरायणोऽतः” इति सूत्रस्यासंगतिप्रसङ्गात् । अत एव चानन्याधिपतिः" इति सूत्रे, अत एव = सत्यसङ्कल्पत्वात् चशब्दोक्तायाः, स्वराड्भवती ति श्रुतेश्चानन्याधिपतिर्मुक्तो भवति ; नास्यान्योऽधिपतिर्भवतीत्यर्थः । इदमपि सगुणोपासनया हिरण्यगर्भ प्राप्तस्य" इति यत् परैरुक्तम् -- तत् अत्यन्ता- संगतम् - तस्य हिरण्यगर्भेश्वररूपाधिपतिसत्त्वेनानन्याधिपतित्वस्य वक्तुमशक्यस्वादित्यलमतिचर्चया । प्रकृतमनुसरामः !! ६७ ॥ इति कौषीतक्युपनिषत्प्रथमाध्यायप्रकाशिका । " स