पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

+ . कौषीतक्युपनिषत्प्रकाशिका १२५ अथ द्वितीयोऽध्यायः प्राणो ब्रह्मेति ह स्माह कौषीतकिः । तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं चक्षुर्गोप्तृ श्रोत्रं संश्रावयितृ वाक् परिवेष्ट्री। स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद, दूतवान् भवति । यश्चक्षुर्गोप्तृ, गोप्तृमान् भवति । यः श्रोत्रं संश्रावयित, संश्रावयितृमान् भवति । यो वाचं परिवेष्ट्रीम , परिवेष्ट्रीमान् भवति । तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलि हरन्ति । एवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति, य एवं वेद । तस्योपनिषत् , न याचेदिति । तद् यथा ग्रामं भिक्षित्वाऽलब्ध्योपविशेत् , नाहमतो दत्तमश्नीयामिति । त एवैननुपमन्त्रयन्ते, ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मोऽयाचतो भवति। अन्नादास्त्वेवैनमुपमन्त्रयन्ते, ददाम त इति ॥१॥ प्राणो ब्रह्मेति ह स्माह पैङग्यः। तस्य ह वा एतस्य प्राणस्य ब्रह्मणो वाक् परस्तात् चक्षुरारुन्धे; चक्षुः परस्ताच्छोत्रमारुन्धे, श्रोत परस्तान्मन आरुन्धेः मनः परस्तात् प्राण आरुन्धे; तस्मै वा एतस्मै प्राणस्य ब्रह्मण एता: सर्वा देवता अयाचमानाय बलिं हन्ति । एवं द्वितीयाध्यायपरिष्कारः प्राणप्राशस्त्यमत्र द्वितीयेऽध्याये प्रतिपाद्यते । वाक्प्राणमनश्चक्षुःश्रोत्राणां पञ्चानामुपासनोपकरणतया प्राधान्येन परिग्रहः केनाद्युपनिषत्सु प्रसिद्ध इति बहुत्रास्माभिर्शितमस्ति । इहापि कौषीतक्युपनिषदि तत्परिग्रहेण तत्र प्राणस्य प्राधान्यमन्यत्रेव प्रतिपाद्यते । तद्ग्रहणानुगुणं काम्यानि कानिचिदुपासनान्युपदिश्यन्ते : तत्र प्राणवत् बलिहरणेन आराध्यत्वसिद्धिफलकं प्राणे ब्रह्मदृष्टिरूपमुपासनं तत्तन्मुनिमतं द्विप्राकारमुच्यते प्राणो ब्रह्मेतीति । प्राणो राजस्थानापन्नः; मनआदि च तत्परिजनस्थानापन्नमिति ब्रह्मत्वेन दृश्यस्य प्राणस्य मनादिर्दूतत्वादिना द्रष्टव्यः । परिवेष्ट्री परिवेषणकत्री। बलिं हरन्तीति । छान्दोग्यादौ (५) 'यदहं वसिष्टास्मि त्वं तद्वसिष्ठोऽसी' त्येवं वागादिमिः स्वस्वगतगुणार्पण प्राणे क्रियमाणं द्रष्टव्यम् । (१) कौषीतकिकृता ब्रह्मदृष्टिरक्ता। पैङ्गयकृता सा तत्फलिका प्रदर्श्यते । वाक्परस्तादित्यादौ विभक्तिव्यत्ययो द्रष्टव्यः । वाचमतिशेते चक्षुः ; वाचोक्तेऽयं चक्षुषा दृष्ट एव प्रत्ययदाढर्यात् ; वाचः कर्मेन्द्रियत्वात् अस्य ज्ञानेन्द्रियत्वाच्च । चक्षुरतिशेते श्रोत्रम् । 'चक्षुर्वित्तं मानुषम् , श्रोत्रं देव " मित्युक्तरीत्या आमुष्मिकस्य सर्वस्य श्रोत्रग्राह्यवेदेकवेद्यत्वात् । मनस्तु सर्वग्राहि ततोऽधिकम् । इन्द्रियाणां प्राणाधीनस्थिति प्रवृत्तिकत्वात् प्राण श्रेष्ठः । (२) --