पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

-- " श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. २. हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति, य एवं वेद । तस्योपनिषत् , न याचेदिति । तद् यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेत् , नाहमतो दत्तमश्नीयामिति, त एवैनमुपमन्त्रयन्ते, ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मेऽयाचतो भवति, अन्नादास्त्वेवैनमुपमन्त्रयन्ते, ददाम त इति। ।। २ ॥ अथात एकधनावरोधनम् :, यदेकधनमभिध्यायात् , पौर्णमास्यां वाऽमावास्यायां वा शुद्धपक्षे वा पुण्ये नक्षत्रे एतेषामेकस्मिन् पर्वण्यग्निमुपसमाधाय परिसमूह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्वाच्य स्रुवेणाज्याहुतीर्जुहोति, 'वाङ्नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवरून्ध्यात् तस्यै स्वाहा', 'चक्षुर्नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवसन्ध्यात् तस्यै स्वाहा', 'श्रोत्रं नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवसन्ध्यात् तस्यै स्वाहा', 'मनो नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवसन्ध्यात् तस्यै स्वाहा,' 'प्रज्ञा नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवरुन्ध्यात् तस्यै स्वाहा' इति । अथ धूमगन्धं प्रजिघ्राय आज्यलेपेनाङ्गान्यनुविमृज्य वाचयमोऽभिप्रवज्यार्थं ब्रूयात् , दृूतं वा प्रहिणुयात् , लभते हैव ॥३॥ अथातो देवः स्मरः -- यस्य प्रियो बुभूषेत् , यस्यै वा, येषां वा, यासां वा, एतेषामेवैकस्मिन् पर्वण्येतयैवाऽऽवृता एता आज्याहुतीर्जुहोति, , . . प्राणादिदेवतोद्देश्यकहोमाद्यनुष्ठानेन रिक्तस्य धनिकधनप्राप्तिसौलभ्यमुपवर्ण्यत अथात एकधनावरोधनमिति । एकस्य = कस्यचिदन्यस्य यत् धनम् , तस्यावरोधनम् स्वप्रयत्नेन संग्रहः । अत्र प्रागुक्तेन वागादिना सह प्रज्ञाऽपि काचिद् देवतात्वेनोक्ता। एतेषामेवैकस्मिन् पर्वणि इति । उक्तानां मध्ये कस्मिंश्चित् काले इत्यर्थः अर्थं ब्रूयात् इति । साक्षादिति शेषः । स्वयं वा साक्षात् धनिकसविधे ब्रूयात् दूतं वा प्रेषयेदिति । प्राणादि देवतोद्देश्यक होमबलेन परेषां स्वस्मिन् प्रीतिपूर्वकस्मरणसिद्धिरुच्यते ! अथातो दैवः स्मर इति । परैः स्वस्मिन् स्वयं प्रीत्यकरणेऽपि प्राणादि देवकल्पिता भवति प्रीतिरिति अयं दैवः स्मरः । स्मरः कामो का काममूलकस्मरणं वा । आवृता उक्तप्रकारेण