पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

19 आत्मानं त्वामदृष्ट्वा कृतमखिलमपि क्षीयते त्वञ्च नैव त्वज्ञातः पासि तस्मादभिलषितफलस्त्वामुपासीत लोकम् ।। ९६

लोकत्वं स्याद् गृहस्थे विधिविहितकरे देवपित्रादितिर्यक्- पर्यन्तैराश्रितत्वात् त्वयि भवति तथा लोकता पूर्वमुक्ता । नूनं जायां प्रजां त्वं धनमथ विदधत् कर्म पञ्चात्मकत्वात् कृत्स्नोऽभूरादिसृष्टौ कलयति सकलः स्वञ्च कृत्स्नं तथात्वे ॥ ९७

तद्वञ्चात्मेति चित्तं धनमिह च परत्रेति चक्षुः श्रवोऽथो जाया वाक् कर्म कायः श्रितरम ! तनयः प्राण इत्येव पश्येत् । इत्थं पञ्चात्मकाध्यात्मिकगण इह चेद् यज्ञपश्चादिपाङ्क्ता- ध्यासं कुर्वीत पाङ्क्तं निखिलमिदमवाप्नोति चित्तादिमन्ता ॥ ९८

चक्षुः श्रोत्रं मनो वागन इति गदितो योऽत्र सर्वत्र धुष्टो ___ दृष्टिध्यानोपपत्तिश्रुतिकरणगणस्तत्र चान्त्यत्रिकस्य । देवान्ने ये हुतञ्च प्रहुतमिति पयोऽन्नं पशोर्यद् यदन्नं साकं तैः सप्तशैलेश्वर ! वदति जनिं त्वद्धि सप्तान्नवाक्यम् ॥ ९९

अक्षीणत्वत्कृतत्वं ह्युदित इह विदन् सप्तकेऽभीष्टमन्नं मोक्षान्तेष्वश्नुतेऽथ त्रिकमपि कथितं चक्षुरादेः परं यत् । नानाजातीयकार्यानुगुणविभवतस्तच्च नैकप्रकारैः तुल्यं विद्वान् अनन्तात्मकमिति लभते श्रीपतेऽनन्तलोकम् ॥ १००

साक्षात् पुत्रात्मना वा स्वकृतफलभुजोऽमुत्र तत्स्वैरचारा- न्वर्थोक्त्यानन्ददायीत्यवगतविभवः सर्वनिर्बाधरक्ष्यः । श्रीमन् ! वाक्चित्तपुत्रोऽप्यन इह महितो निःसपत्नोऽस्य मत्या निश्शत्रुत्वं तदीशं शशिनमवयतः षोडशित्वं कलाभिः ॥ १०१

उक्तैरन्यैश्च योऽक्षैरमृत इति मतः श्रेष्ठ एतद्विदो यः ।। स्पर्धेतासौ म्रियेताप्ययमिह विनुतोऽध्यात्ममीड्योऽधिदेवम् ।