पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका 'वाचं ते मयि जुहोम्यसौ स्वाहा, 'चक्षुस्ते मयि जुहोम्यसौ स्वाहा,' 'श्रीत्रं ते मयि जुहोम्यसौ स्वाहा,' 'मनस्ते मयि जुहोम्यसौ स्वाहा,' 'प्रज्ञां ते मयि जुहोम्यसौ स्वाहा' इति । अथ धूमगन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यनुविमृज्य वाचयमोऽभिप्रव्रज्य संस्पर्शं जिगमिषेत् , अपि वाताद्वा तिष्ठेत् संभाषमाणः; प्रियो हैव भवति, स्मरन्ति हैवास्य । ॥ ४ ॥ अथातः संयमनं प्रातर्दनमान्तरमग्निहोत्रमित्याचक्षते --- यावद्वै पुरुषो भाषते , न तावत् प्राणितुं शक्नोति । प्राणं तदा वाचि जुहोति । यावद्वै पुरुषः प्राणिति, न तवद्भाषितुं शक्नोति । वाचं तदा प्राणे जुहोति । एते अनन्ते अमृते अहूती जाग्रच्च स्वपंश्च संततं जुहोति । अथ या अन्या आहुतयोऽन्तवत्यः, ताः कर्ममय्यो हि भवन्ति । तद्ध स्मैतत् पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रुः । ॥ ५॥ उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारः । तत् ऋगित्युपासीत । सर्वाणि हास्मै भूतानि श्रेष्ठयायाभ्यर्च्यन्ते । तत् यजुरित्युपासीत । - , वाचं ते इति । ते इति वशीकार्यः पर उच्यते । (४) अथोकप्राणादिपञ्चकमध्ये प्राणस्य वाचश्च परस्परस्मिन् होमभावनया अग्निहोत्रसंपत्तिः प्रदर्श्यते । अग्निहोत्रदेवतयोर्मध्येऽपि सूर्यस्याग्नौ रात्रौ, अग्नेः सूर्ये च दिवा प्रवेशः प्रसिद्धः । संयमनं प्रातर्दनमिति । प्रतर्दनाख्येन राज्ञा कृतं ध्यानमित्यर्थः । जागरकाले व्याहरमाणः प्राणं किञ्चिदाबध्यैव व्याहर्तुं पारयति । यदा न व्याहरणप्रसक्तिः, तदैव प्राणो यथावदुच्छवासनिः- श्वासौ करोतीति तदातदा एकस्यान्यत्र हुतत्वम् । स्वापकाले जागादीनां प्राणे विलयश्च प्रसिद्धः । या अन्या आहुतय इति । बाह्यानां सायं प्रातच कदाचिदेव भावात नक्तंदिवं संततत्वाभावात् अन्तवत्त्वं स्पष्टम् । अतिशयितफलत्वाच्चेदमान्तरमग्निहोत्रं श्रेयः । तद्धेति । बाह्याग्निहोत्रात् अस्यातिशयितत्वादित्यर्थः। ऐतरेयेनेऽपि श्रूयते एवम् । (५) प्राणादिपञ्चके प्रशस्ततया प्रसिद्धो मुख्यप्राणः शस्त्रेषु अप्रगीतमन्त्रसाध्याणिनिष्टगुणाभिधानरूपेषु प्रशस्तं यदुक्थाख्यं शस्त्रम् तद्रूपेण ऐतरेयादौ श्रुतः । अतः प्राणमेवोक्थमिति गृहीत्वा तत्र ब्रह्मदृष्टिः श्रैष्ठ्यादिफलिका प्रतिपाद्यते उक्थमिति । शुष्कभृङ्गार इति कश्चिदृषिः । - ..