पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

, १२८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता को. २. सर्वाणि हास्मै भूतानि श्रैष्ठयाय युज्यन्ते । तत् सामेत्युपासीत । सर्वाणि हास्मै भूतानि श्रैष्ठयाय संनमन्ते । तत् श्रीरित्युपासीत, तत यश इत्यपासीत, तत् तेज इत्युपासीत । तद् यथैतत् श्रीमत्तमं यशस्वितमं तेजस्वितममिति शस्त्रेषु भवति, एवं हैव स सर्वेषु भूतेषु श्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति, य एवं वेद । तदेतदैष्टिकं कर्ममय- मात्मानमध्यर्युः संस्करोति ; तस्मिन् यजुर्मयं प्रवयति; यजुर्भये ऋङ्मयं होता ; ऋङ्मये साममयमुद्गाता। स एष त्रय्यै विद्याया आत्मा; एष उ एवैतदिन्द्रस्यात्मा भवति य एवं वेद । ॥ ६ ॥ अथातः सर्वजितः कौषीतकेस्त्रीण्युपासनानि भवन्ति । सर्वजिद्ध स्म कौषीतकिरूद्यन्तमादित्यमुपतिष्ठते---- यज्ञोपवीतं कृत्वोदकमनीय त्रिः प्रसिच्योदपात्रम् , 'वर्गोसि पाप्मानं मे वृङ्धि' इति । एतयैवाऽऽवृता मध्ये सन्तम् , 'उद्वर्गोऽसि पाप्मानं मे उद्घृङ्धि' इति । एतयैवाऽऽवृताऽस्तं यन्तम् , 'संवर्गोऽसि पाप्मानं मे संवृद्धि' इति । तद् यदहोरात्राभ्यां पापमकरोत् , सं तद् वृङ्क्ते । तयो एवैवं विद्वान् एतयैवाऽऽवृताऽऽदित्यमुपतिष्ठते, यदहोरात्राभ्यां पापं करोति, सं तद् वृङ्क्ते ! ॥ ७ ॥ अभ्यर्यन्ते, युज्यन्ते. संनमन्ते, इति विभिन्नधातुप्रयोगः ऋग्यजुस्स मपदाक्यवार्थानुगमनदर्शनाय । तद् यथैतदिति । प्रसिद्धे हि स्तोत्रशस्त्रे सोमयागाङ्गभूते। प्रगीतमन्त्रसाध्य गुणिनिष्टगुणाभिधान स्तोत्रम्, अप्रगीतमन्त्रसाध्यगुणनिष्टगुणाभिधानं शस्त्रमिति । तेषु नैकविधषु यथा एतत् उक्थं श्रीमत्तमत्वादिमत् , तथा अयमुपासकः सर्वेषु भूतेषु श्रीमत्तमत्वादिभान् भवतीत्यर्थः । अध्वर्योर्होतुरुद्गतुश्च क्रमात् यजुर्वेदर्ग्वेद सामवेदसंबन्धित्वात् तत्तद्विषये वजुर्मयाद्युक्तिः । प्रवयति प्रकर्षेण संतनोति । (६) । आदित्यो ह वै वाह्यः प्राण उदयति एष ह्येनं चाक्षुषं प्राणमनुगृह्णानः' (३) इति प्रश्नोपनिषदुक्तरीत्या प्रागादित्यैक्यात् आदित्यविषयकमुपासनमुच्यते अथातः सर्वजित इति । मादित्योपस्थानादीनां वक्ष्यमाणानां सर्वेषामन्ततः प्रागरक्षणार्थत्वाद्वा प्राणाध्याये एतत्सर्वोक्तिरिति ध्येयम् । तत्र वर्गोद्वर्गसंवर्गमन्त्रैः कमेण प्रातर्मध्ये सातश्चादित्योपस्थानमहोरात्रकृतपापवर्जनफलकम् । तद्विषयकं कोषोतक्यनुष्टानं दर्शयति सर्वजिदिति ! सं तद् वृङ्क्ते । कौषीतकिरिति शेषः । अतः शिष्टानुष्टानात् सर्वैरिदमनुष्ठेयमित्याह तथेति (७) , --