पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

, कौषोतक्युपनिषत्प्रकाशिका १२९ अथ मासिमास्यमावास्यायां वृत्तायां पश्चाच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवाऽऽवृता हरिततृणे वा [चं] प्रत्यस्यति, 'यन्मे सुसीमं हृदयं दिवि चन्द्रमसि श्रितम् । मन्येऽहं मां तद्विद्वांसं माऽहं पुत्र्यमघं रुदामिति । न ह्यस्मात् पूर्वा प्रजा प्रैति । इति नु जातपुत्रस्य ॥ अथाजातपुत्रस्य- आप्यायस्व समेतु ते,' 'सं ते पयासि समु यन्तु वाजा,' 'यमादित्या अंशुमाप्याययन्ती' त्येतास्तिस्त्र ऋचो जपित्वा, माऽस्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठाः, योऽस्मान् द्वेष्टि, यश्च वयं द्विष्मः, तस्य प्राणेन प्रजया पशुभिराप्याययस्वे ' ति । 'ऐन्द्रीमावृतमावर्ते आदित्यस्यावृतमावर्ते' इति दक्षिण बाहुमन्वावर्तते ॥८॥ . .. , , आप्यायस्वेति प्रतीकत्रयगृहीतमृक्तयं तावत् - आप्यायस्व समेतु ते विश्वतः सोम वृष्मियम् । भवा वाजस्य संगथे। सं ते पयांसि समु यन्तु वाजाः संवृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥ यमादित्या अंशुमाप्यययन्ति यमक्षितमक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिराप्याययन्तु भुवनस्य गोपाः ।। इति । 'आपोमयः प्राणः' इति प्राणस्याम्मयत्वं श्रुतम् । सोमस्य च तत् प्रसिद्धम् । तथा सोमनामभिः प्राणस्याऽऽमन्त्रणश्च दृष्टम् , 'बृहन् पाण्डरवासः सोमराजन् ' इति । प्राणादित्ययोरैक्यात् सोमस्यादित्याप्याय्यमानत्वाच्च प्राणसोमैक्यं भवितुमर्हति । अतः सोमोपासन- मुच्यते । तत्र जातपुत्रस्य स्वमरणात् प्राक् पुत्रामरणफलकं प्रथमम् , अजातपुत्रस्य स्वाप्यायनफलकं द्वितीयम् । पश्चादिति प्रतीच्यामित्यर्थः । इदश्च शुक्लपक्षे द्वितीयायां चन्द्रकलादर्शनम् । अत एवाद्यत्वेऽपि तादात्विककलादर्शनं स्मृत्याचारसिद्धम् । एतयैवावृतेति । पूर्वोक्तरीत्येत्यर्थः । वैकल्पिकं कर्यान्तरमुपस्थानाङ्गमाह हरिततृणे इति । उदपात्रे तृणद्वयप्रन्यसनं कृत्वा वोपतिष्ठेतेत्यर्थः। 'हरिततृणे वाचं प्रत्यस्यती'ति पाठे तु हरिततृणे स्थितस्सन् वक्ष्यमाणमन्त्ररूपां वाचमुचारयेदित्यर्थः । न ह्यस्मात् पूर्वा प्रजा प्रैतीति । एतत्प्रजा एतन्मरणात् प्राक् न म्रियत इत्यर्थः । पूर्व प्रैतीति प्रयोक्तव्ये पूर्वा प्रैतीति कर्तृविशेषणतया पूर्वादिपदप्रयोगोऽपि श्रुतिशैली । इतिन्वित्यादि । जातपुत्रपुरुषकर्तृकोपस्थानप्रकारोऽयम् । अथाजातपुत्रपुरुषर्तृक. मुपस्थानमुच्यत इत्यर्थः । ऐन्द्रीमित्यादि । इन्द्रवत् आदित्यवच्च आवर्तमानोऽस्मि स्थिर इत्यर्थः । (८) 17