पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

. कौषीतक्युपनिषत्प्रकाशिका 'मा छेत्था मा व्यथिष्ठाः शतं शरद आयुपो जीवस्य पुत्र ते नाम्ना मूर्धानमभिजिघ्रामी' ति त्रिरस्य मूर्धानमभिजिघ्रेत् । ‘गवां त्वा हिङ्कारेणाभिहिङ्करोमी' नि त्रिरस्य मूर्धानममिहिङ्कुर्यात् ।। ११ ।। अथातो दैवः परिमरः- एतद्वै ब्रह्म दीप्यते यदग्निर्ज्वलति । अथैतन्म्रियते, यन्न ज्वलति । तस्यादित्यमेव तेजो गच्छति ; वायु प्राणः । एतद्वै ब्रह्म दीप्यते, यदादित्यो दृश्यते ; अथैतन्म्रियते, यन्न दृश्यते । तस्य चन्द्रमसमेव तेजो गच्छति; वायुं प्राणः । एतद्वै ब्रह्म दीप्यते, यश्चन्द्रमा दृश्यते ; अथैतन्त्रियते, यन्न दृश्यते । तस्य विद्युतमेव तेजो गच्छति ; वायुं प्राणः । एतद्वै ब्रम दीयते, यद् विद्युद् विद्योतते ; अथैतन्म्रियते, यन्न विद्योतते । तस्या दिश एक (वायुमेव) तेजो गच्छति ; वायुं प्राणः । ता वा एताः सर्वा देवता वायुमेव प्रविश्य वायौ मृत्वा न मूर्च्छन्ते ; तस्मादे । पुनरूदीरन इत्यधिदैवतम् । अथाध्यात्मम् --- ॥१२॥ एतद्वै ब्रह्म दीप्यत, यद्वाचा बदति । अथैतन्म्रियते, यन्न वदति । तस्य चक्षुरेव तेजो गच्छति ; प्राणं प्राणः । एतद्वै ब्रह्म दीप्यते, यचक्षुषा पश्यति। अथैतन्प्रियते, यन्न पश्यति । तस्य श्रोत्रमेव तेजो गच्छति; प्राण प्राणः । एतद्वै ब्रह्म दीप्यते, यच्छोत्रेण शृणोति । अथैतन्म्रियते, यन्न शृणोति । तस्य मन एव तेजो गच्छति ; प्राणं प्राणः । एतद्वै ब्रह्म दीप्यते, यन्मनसा ध्यायति । अथैतन्म्रियते, यन्न ध्यायति । तस्य प्राणमेव तेजो गच्छति प्राणं प्राणः । ता वा एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे मृत्वा न मृर्च्छन्ते ; तस्मादेव पुनरुदीरते । तद् यदिह वा एवं .. , आधिदैविकाध्यात्मिकप्राणविषयिणी परिमरभावनां परितो द्वेषिमरणफलामाह अथातो देव इति । भृगुवल्ल्याम 'ब्रह्मणः परिमरः' इत्यत्राप्येवम्भूतोऽर्थ: परिष्कारे द्रष्टव्यः । वायुं प्राण इति । ज्वलनाद्यभावरूपमरणात् पूर्वमग्न्यादीनां ज्वलनाद्युपयोगितया स्थितः प्राणो मरणानन्तरं वायौ लीन इत्यर्थः । वायु देवता अग्न्यादौ कृतं प्राणनव्यापारं तदा त्यजतीत्युक्तं भवति । उदीरते = उद्गच्छन्ति । ईर गती । बहुवचनम् । एवमधिदैवतमग्न्यादित्यचन्द्रमोविद्युतां विलय उक्तः। वाय्वधीनत्वात् तद्वयापारस्य । अथाध्यात्मं वाक्चक्षुश्श्रोत्रमनसां प्राणे लय