पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता को.२. विद्वांसमुभौ पर्वतौ अभिप्रर्वेतयातां दक्षिणश्चोत्तरश्च तुस्तूर्षप्रमाणौ, न हनं स्तृन्वीयाताम् । अथ य एनं द्विषन्ति, यांश्च स्वयं द्वेष्टि, त एवैनं परिम्रियन्ते ॥१३॥ अथातो निःश्रेयसादानम् -एता हवै देवता अहंश्रेयसे विवदमाना अस्माच्छरीरादुश्चक्रमुः। तद्धाप्राणत् शुष्कं दारुभूतं शिश्ये । अथैनद् वाक् प्रविवेश । तद् वाचा वदत् शिश्य एव । अथैनच्चक्षुः प्रविवेश । तद् वाचा वदत् चक्षुषा पश्यत् शिश्य एव । अथैतच्छ्रोत्रं प्रविवेश। तद्वाचा वदत चक्षुषा पश्यच्छोण भृण्वत् शिश्य एव ! अथैनन्मनः प्रविवेश। तद्वाचा वदत् चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा ध्यायच्छिश्य एव । अथैनत् प्राणः प्रवि- वेश। तत् तत एव समुत्तस्थौ । ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा प्राणमेव प्रज्ञात्मानमभिसंभूय सहैवैतैः सर्वैरमाच्छरीरादुत्क्रामति । स वायुप्रतिष्ट (विष्ट) आकाशात्मा स्वरेति । स तूद्गच्छति, यत्रैते देवाः, तत् प्राप्य यदमृता देवाः तदमृतो भवति । य एवं वेद ॥ १४ ॥ उच्यते अथाध्यात्ममिति । वाचा वक्तुमशक्यमपि पश्यति ; द्रष्टुमशक्यमपि शृणोति, अप्राप्त- श्रवणमप्यन्तश्चिन्तयतीत्याशयेन वागादितेजसां चक्षुरादिषु लयकथनम् । प्राणं प्राण इति । तत्तदिन्द्रियप्रेरणव्यापारः प्राणकृतः तदा पृथङ् न तिष्ठतीति यावत् । (१३) छान्दोग्यबृहदारण्यकादिप्रसिद्धः प्राणप्राधान्यवाद इहापि क्रियते। एतद्विज्ञानफलञ्च देवदमृतत्वम् । सर्वाभेदान्यत्रेमे" इति सूत्रे अन्यत्रेति इदं कौषीतकिप्रकरणमेव गृहीत्वा छन्दोग्यबृहदारण्यकश्रुतविद्याक्यं विचार्य स्थापितम् । परन्तु भावप्रकाशिकाशारीरकशास्त्रार्थदीपिकादौ परानुरोधेनेव वाक्यमिदं कौषीतकीदशमाध्यायगतत्वेन निर्दिष्टमस्ति । तन्नूनं कौषीतकिब्राह्मणपूर्वभागमेलनेन स्यात् । निःश्रेयसादानम् प्राणादिदेवतानां मध्ये प्रण देवतया श्रौष्ठयस्वीकरणम् । उपवर्ण्यत इति शेषः । अहंश्रेयसे स्वस्येतरामेक्षयोत्कर्षमुद्दिश्य । तद्धाप्राणदिति । त: शरीरं सर्वासां निष्क्रान्तत्वात् निष्प्राणं शिश्ये इति । शिश्य एवेति । मुख्यप्राणस्य पुष्कलप्रवेशाभावात् वागादिप्रवेशाधीन व्याहारादिकर्तृत्वेऽपि नोत्थानसमर्थमासीदित्यर्थः । न च सर्वथा मुख्यप्राणसंबन्धाभावे बागादिव्यापारा एव कथमिति शङ्क्यम्-- सर्वथा प्राणसंबन्धाभावे शवत्वप्रसङ्गात् पुष्कलतत्प्रवेशाभावस्यैवेष्टत्वात् । प्रज्ञात्मानम् स्वकीयप्रज्ञारूपव्यापार निर्वाहकम् ; यद्वा प्रज्ञजीवरूपनिर्वाहकविशिष्टम् । एतैः सर्वैः दर्शनादिव्यापारैः सह ! आकाशात्मानः इति, धूमादिमागें आकाशस्य निविष्टत्वात् ; अवकाशाभावे गमनायोगेन तदपेक्षत्वाद्वा। १४ - --