पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता वा व्रजेत् । यद्यु वै प्रेयात् , तथैवेनं समापयेत् , यथा समापयितव्यो भवति ॥१५॥ इति कौषीतकिब्राह्मणोपनिषदि द्वितीयोऽध्यायः । ३ अथ तृतीयोऽध्यायः प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन [च] पौरुषेण च (१)। तं हेन्द्र उवाच, प्रतर्दन ! वरं ददानीति (२) प्रतर्दनी--पौरुषेण च । दिवोदासस्यापत्यं दैवोदासिः । नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युक्तः इन्द्रस्य प्रियं स्थानं स्वर्ग उपगतः इत्यर्थः ॥ १ ॥ तं. ददानीति स्पष्टोऽर्थः ॥ २ ॥ परि वा व्रजेत् संन्यास वा कुर्यादित्यर्थः । अगदत्वपक्षे वक्तव्यमुक्त्वा पक्षान्तरे वक्तव्यमाह या वा इत्यादिना । अस्य संप्रदानस्यापि मुख्यप्राणतदधीनस्थितिप्रवृत्तिकेन्द्रियरूपसर्व- प्राणविषयकत्वादिहैतदुक्तिः। प्राची पर्यङ्कविद्यैव प्रातर्दन्यादिवत् तथा । परविद्या न काऽपीह द्वितीयेऽध्याय ईक्ष्यते ।। तथापि सूत्रभाष्यादौ ब्रह्मदृष्टिप्रहात् तथा । अत्र निःश्रेयसादानस्योक्तस्यानूक्तिदर्शनात् ॥ चतुरध्यायरूपेण गणनात् सकलैरिह । अभाषितोऽपि व्याख्याय घटितो मध्यपात्ययम् ।। इति कौषीतक्युपनिषद्वितीयाध्यायपरिष्कारः प्राणेन्द्रशरीरकपरमात्मोपासनरूपा प्रतर्दनविद्या प्रस्तूयते । अस्याः फलं चिरायुष्टचिरकालस्वर्गस्थितिपूर्वकमोक्षप्राप्तिरिति सप्तदशे वाक्ये वक्ष्यति । युद्धेन च पौरुषेण चेत्यत्र चकारबलात् एकरूपस्तृतीयार्थो वाच्य इति गम्यते । तत्र युद्धरूपप्रयोजनायेत्यर्थविवक्षा चेत् अग्नेन वसतीत्यत्रेव क्रियते, तदा पौरुषरूपप्रयोजनायेति पौरुषेणेत्यनेन विचक्षणीयम् । तदन्वयश्च न समास: । अतः सहयोगे तृतीयामेव स्वीकृत्य युद्धेनेत्यस्य युद्धसाधनबलेनेत्यर्थे लक्षणा स्वीकृता। तत्र देवासुरयुद्धस्य प्रसक्तत्वात् स्वस्य च पौरुषवत्त्वादयं प्रार्थितो जगामेत्यर्थेऽपि न दोषः । युद्धेन पुरुषकारेण च कारणेनेति अद्वैतिटीका ॥ १ ॥