पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्यकाशिका . स होवाच प्रतर्दनः, त्वमेव [मे'वरं ] वृणीष्व, यं त्वं मनुष्याय हिततमं मन्यसे इति । (३) तं हेन्द्र उवाच, न वै वरं परस्मै वृणीते (न वै वरमवरस्मै वृणीते) (न वै परोऽपरस्मै वृणीते !) त्वमेव वृणीष्वेति ॥४॥ 'अवरो वै तर्हि किल मे' इति होवाच प्रतर्दनः ॥ ५ ॥ अथो खल्विन्द्रः सत्यादेव * नेयाय ॥ ६॥ सत्यं हीन्द्रः ॥७॥

  • सत्यादेवते यायेति भाष्ये पा..

स.-मन्यसे । सर्वज्ञस्त्वं यं वरं मनुष्याय मे हिततमं मन्यसे, त्वमेव वृणीष्व ; नाहमज्ञः स्वहिततमं वरं वेद्मीति ॥ ३ ॥ तं. वृणीष्वेति । न ह्यन्योऽन्यार्थं वरं वृणीते । अतः त्वदभिलषितं वरं त्वमेव मत्तो वृणीष्वेत्यर्थः ॥ ४ ॥ अवरो-प्रतर्दनः । यदि हि त्वयाऽपि न व्रियते, तर्हि मम हिततमस्य वरस्यापरिज्ञानात् वराभाव एव प्राप्त इति प्रतर्दन इन्द्रमुवाचेत्यर्थः ॥ ५ ॥ अथो-नेयाय । एवमुक्त इन्द्रः, ते वरं ददामीति सत्याद्वाक्यात् नापेतः ॥ ६॥ तत्र हेतुमाह सत्यं हीन्द्रः । इन्द्रस्य सत्यप्रधानत्वादित्यर्थः । ततश्च वरं ददानीति मदुक्तं वाक्यमसत्यं मा भूदित्यमन्यतेत्यर्थः । केचित्तु-सत्या देवतेयाय सत्यं हीन्द्र इति पाठे, तं हेन्द्र उवाचेति शेषः । वचनप्रकारमेवाह-सत्या देवतेयाय सत्यं हीन्द्र इति । सत्या देवता सत्यवाक्या परमात्मरूपा देवता त्वामियाय स्वामविष्टवती । सत्यवाक्यपरमात्मावेशवशाद्धि, स्वमेव वरं वृणीष्वे' ति वाक्यं स (त्वं.) प्रयुक्तवानिति भावः । परमात्मनः सत्यवाक्यत्वप्रसिद्धि दर्शयति सत्यं हीन्द्र इति । इन्द्रः परमात्मेत्यर्थः-इति वदन्ति ॥ ७ ॥