पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

2 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स होवाच मामेव विजानीहि । एतदेवाहं मनुष्याय हिततमं मन्ये, यन्मां विजानीयात् ॥ ८॥ विशीर्षाणं त्वाष्ट्रमहनम् ॥९॥ अरुन्मुखान् यतीन् सालायुकेभ्यः प्रायच्छम् ॥१०॥ 1. विजानीयाम् . 2. भवाङ्मुखान् . स होवाच-विजानीयाम् । यदि ते हिततममुपदेष्टव्यम् , तर्हि मदुपासनमेव हिततमं मोक्षसाधनमिति मन्मतम् । अत इतरत् परित्यज्य मामुपास्वेत्यर्थः । अतः(त्र :) प्रसिद्धजीवभावस्येन्द्रस्य हिततमत्वलक्षणमोक्षसाधनत्वाश्रयो- पासनकर्मत्वासंभवात् मामिति शब्दः स्वात्मभूतं परमात्मानमभिदधाति । अतः ?] 'य आत्मनि तिष्ठन् ', ' अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' इति शास्त्रेण, 'स्वस्याप्यात्मभूतः परमात्मा अहम्बुद्धिशब्दाश्च परमात्मपर्यन्ताः' इति जानत इन्द्रस्य स्वात्मभूते परमात्मनि मामिति शब्दप्रयोगे नानुपपत्तिः । ननु स्वायत्ते शब्दप्रयोगे असन्दिग्धं परमात्मवाचकमेव पदं प्रयुज्यताम् । किं न्यायलभ्यपरमात्मपर्यवसानेन मामिति शब्देनेति चेत्-स्यादेवम् , यदि परमात्मस्वरूपमात्रोपासनं विधित्सितं स्यात् । अपि तु स्वशरीरकतया । अतो मामिति निर्देशः उपपद्यते ॥ ८॥ तत्क्रतुन्यायेन स्वोपासकस्य पापाश्लोषं वक्तुं स्वस्य पापाश्लोषं दर्शयति त्रिशीर्षाणम् -- अहनम् । त्रिशिरस्कं त्वष्टपुत्रं विश्वरूपं हतवानस्मि ॥ ९ ॥ अरुन्मुखान्-प्रायच्छम् । रौतीति रुत् वेदः। रुत् मुखे न विद्यते येषां ते अरुन्मुखाः । वेदान्तविमुखान् यतीन् वनश्वविशेषेभ्यः स्वादनाय प्रायच्छम् ॥ १० ॥ अतो मामिति निर्देश उपपद्यत इति । मदन्तर्यामिणमिति स्पष्टीनिर्देशोस्तु इति चेन्नस्वात्मप्रकारकपरमात्मविशेष्यकोपासनस्य विवक्षितस्य तत्रालामात् । न च, ‘स म आत्मेति विद्या 'दिति वक्ष्यमाणपरमात्मोपासनैक देशभूतं मामिति स्वात्मोपासनमात्रमेवानन्द्रेणोध्यतामिति वाच्यम्-तन्मात्रोपासनस्य हिततमत्वायोगात् ॥ ८॥ त्रिशीर्षाणं त्वाष्ट्रमहनमिति । विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत् स्वस्नीयो. ऽसुराणाम् । तस्य पुरोहितस्य ब्राह्मणस्य वधे ब्रह्महत्यया भाव्यम् । तदश्लेषो विद्याबलात् ।। ९॥ रौतीति। वक्ति मानान्तरागोचरपरमार्थादिकमिति रौतीत्यस्यार्थः । किमिति यतीनां साधूनां मारणमित्यत्र अरुन्मुखत्वादिति हेतुवर्णनमिदम् । पापप्रयोजकाकारस्त यतित्वमेव ॥ १० ॥ ,