पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्न्याद्यैर्वायुरस्तं न गत इति च तत् श्रीनिधे! नामरूप- च्छन्नात्मक्षेमकामः कलयतु निभृतः प्राणमायम्य वश्यम् ॥ १०२

ज्येष्ठाच्छ्रेष्ठाद् भवत्यायतनमिह मनो वाग् वसिष्ठा प्रतिष्ठा चक्षुः श्रोत्रञ्च सम्पत् तनुकरणधृतोऽनात् प्रजातिश्च रेतः । अन्नं सर्वं तदन्नं तददनमभितः श्रोत्रियाचान्ततीर्थ तद्वस्त्रञ्चेति यद्वित्त्यधिगमनफलं ज्यैष्ठयवासिष्ठयमुख्यम् ॥ १०३

ब्रह्मत्यावेद्य बाह्यान् बहुविधपुरुषान् श्रीश ! बालाकिनोक्तः शारीरात्मा चतुर्वा तनुभरणपरः स्वापकृत् दक्षिणेऽक्षिण । सव्ये चाक्ष्णि स्थितश्चेत्यथ लघुफलकब्रह्मदृष्टित्वमेषाम् उक्त्वैतत्सर्वकर्ता पर इति तु जगत्कर्मक बोधयंस्त्वाम् ॥ १०॥

सुप्तोऽन्यः प्राज्ञजाग्रच्चित इति न महाराजविप्रादिभावः तस्यैवाऽऽमन्त्रितस्योस्थितिरहिततया स्यात् सुषुप्तिर्दशान्या । प्राणस्तद्देवता वा न च स; न हि शृणोत्येष नामानि नैजा- न्युत्तिष्ठत्येव पिष्टः पुनरिति न स नास्तीति जीवं विबोध्य ।। १०५

स्वप्नस्थानात् पुरीतत्युपरतकरणक्लेश आनन्दरूप- प्राणाकाशाख्ययत्संगमबलत इहास्त्येष निर्याति यस्मात् । तद् बालाक्युक्तसत्यादपि महिततया ब्रह्म सत्यस्य सत्यं काश्योऽस्मै प्राह तु त्वामघहर ! कृतराड्भाव! कौषीतकीद्ध ! ॥ १०६

जीवान्तःस्थे रमेश ! त्वयि परिकलितं स्तम्भरूपेऽन्नदाम प्राणं बध्नाति वत्सं नयनपथलसत्सप्तरुद्रादिरक्ष्यम् । शीर्षण्यप्राणसप्तस्थलविहतिपरं स्थापितं शीर्षभूमा- वित्येवं विद् गतोऽन्नं निखिलमवरुणद्वयात्मशत्रंूश्च सप्त ।। १०७ मूर्तं तेजोमुखं सत् त्यदपि स्वमनिलस्तेऽस्ति रूपं यदत्रा- क्ष्यध्यात्मस्थस्य सारः सत इह, तपतो मण्डलं त्वाधिदैव्यः ।