पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका बह्वीः सन्धा अतिक्रम्य दिवि प्राह्लादीनतृणहम्, अन्तरिक्षे पौलोमान् पृथिव्यां कालकञ्जान् ॥११॥ तस्य मे तत्र न लोम चामीयत ॥१२॥ स यो मां 'विजानीयात् , नास्य केन च कर्मणा लोको मीयते न मातृवधेन, न पितृवधेन, न स्तेयेन, न भूणहत्यया; नास्य पापं चकृषों मुखं नीलं वेति ॥ १३ ॥ 1. कालकाश्यान् 2. न लोमचनामीयत 3. पापञ्चनचकृषोमुखं नीलं वेत्तीति । . बह्वीः- अतृणहम् = न हनिष्यामिति कृता बह्वीः प्रतिज्ञा अतिक्रम्य दिवि वर्तमानान् प्रह्लादपुत्रान् अतृणहम् । 'तृण (तृदिर्) हिंसाया' मिति हि धातुः । अन्तरिक्षे पौलोमान् पुलोभसुतान् , पृथिव्यां कालकञ्जाख्यासुरांश्च हिंसितवानस्मि ॥ ११ ॥ तस्य-अमीयत । एवं हिंसितवतो मे लोमापि नाहिंस्यत; ब्रह्मविद्याप्रभावादित्यर्थः ॥ १२ ॥ स यो मां-नील वेति । य एतादृशमदात्मानं परमात्मानमुपास्ते, तस्य केनापि कर्मणा मातृवधपितृवधस्तेयभूणहत्यादिलक्षणेन परलोकप्राप्तिर्न विरुद्धयते । एवं पापं कृतवतोऽपि, 'मया ईदृशं पापं कृत ' मिति निर्वेदजनितमुखवैवर्ण्यमपि नास्तीत्यर्थः । चकृष इति तु क्वसन्तात् षष्ठो || १३ ॥ स यो मामिति वाक्यं त्वा हननादिकर्तृत्व समानाधिकरण-पापाश्लिष्टत्वशालीन्द्रशरीरकपरमात्मोपासनपरम् । ननु न मातृवधेनेत्याद्युक्तमघं किं विद्यापूर्वं पाथि, उतोत्तरभावि । नाद्यः ; सञ्चितानन्तपापप्रणाशकत्वाद् विद्यायाः कतिपयपापमात्रनिर्देशेऽनौचित्यात् । उत्तराघविषयत्व एक वाक्यस्वारस्याच्च । नान्यः; प्रामादिकमात्रोत्तराघाश्लेषस्यैव श्रीमाष्ये भाषितत्वेन तद्विरोधादिति चेन्न - अत्र भाष्ये पाथोश्लेषपदप्रयोगेणोत्तराविषयत्वस्य सूचितत्वात् । परविद्यायाः प्रामादिकमात्राश्लेषहेतुत्वमुत्सर्गः। क्वचित्तु वचनबलात् बुद्धिपूर्वपापाश्लेषकरत्वमपि । यथा पञ्चाग्निविद्यानिष्ठस्य पातकिसंसर्गस्य दोषानापादकत्वं (५. १०.) छान्दोग्ये, 'य एतानेवं पञ्चाग्नीन् वेद, न स ह तैरप्याचरन् पाप्माना लिप्यते' इति--तथेह मातृवधादिसर्वदोषाश्लेषोऽपीति ॥१३॥ 1A .