पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौ. ३. १३८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स होवाच, 'प्राणोऽस्मि प्रज्ञात्मा; तं मामायुस्मृतमित्युपास्स्व ॥१४ आयुः प्राणः । प्राणो वा आयुः; प्राण उवा' अमृतम् । यावध्द्यस्मिन् शरीरे प्राणो वसति, तावदायुः । प्राणेन ह्येवामुष्मिन् लोकेऽमृतत्वमाप्नोति ॥ १५॥ 1 1.वा चामृतम् । -- एवं चेतनविशेषरूपस्वविशिष्टपरमात्मोपासनमुक्त्वा अचेतनविशेषरूपप्राणविशिष्टोपासनमाह स होवाच - उपास्स्व । प्रज्ञारूप आत्मा प्रज्ञात्मा जीवः । जीवशरीरक इत्यर्थः । जीवशरीरकोऽहम् । प्राणोऽस्मि प्राणशरीरकोऽहमस्मि । तादृशं प्राणशरीरकं माम् आयुरमृतमित्युपास्स्व ॥ १४ ॥ कथं प्राणशरीरकस्यायुष्टामृतत्वे इत्याशङ्क्याह आयुः-आप्नोति । शरीरे प्राणस्थितेरुच्छ्वासादिलक्षणायुस्साधनत्वादायुः प्राणः । लोकान्तरे चिरस्थायित्वरूपामृतत्वप्राप्तेः प्राणाधीनोपायानुष्ठानसाध्यत्वात् प्राणस्यामृतत्वम् । अत आयुष्ठामृतत्वे प्राणस्योपपद्येते । तद्वारा परमात्मनश्वोपपत्ते; आयुष्ठामृतत्वाभ्यां प्राणशरीरक- ब्रह्मण उपासनमुपपद्यते । यद्वा व्यासार्योक्तरीत्या तं मामायुरिति वाक्ये मामिति जीवविशिष्टतोच्यते । आयुरिति प्राणविशिष्टता । 'आयुः प्राण ' इति ह्यनन्तरमेव श्रवणात् । आयुरमृतमिति स्वेन रूपेणावस्थितिः । [अतः एवञ्च अस्मिन्नेव वाक्ये स्वेन रूपेण, चिदचिद्विशिष्टतया च त्रिविधोपासनं विधीयते । अतो नोपासनात्रयविधिकृतवाक्यभेद इति द्रष्टव्यम् ॥ १५ ॥ आयुष्ठामृतत्वयोः प्राणद्वारैवोपास्ये समन्वयस्यात्र स्पष्टमवगमात् तथैव व्याख्याय व्यासार्यवर्णितमप्याह यद्वेति । अस्मिन् पक्षे, 'प्राणेन ह्यमुस्मिन् लोके ऽमृतत्वमानाती' ति वचनम् , अमृतमित्युपस्स्वेत्युक्तामृतत्वोपपादनपरं नेष्टम् । किंतु आयुः प्राण इत्युक्तायुष्टोपपादनशेषतथैव प्राणे आयुष्टामृतत्वयोः कथनपरं ग्राह्यम् । मुख्य प्राणस्य स्वपरिकरभूतेन्द्रियैः सह ऐश्वर्यरूपैहिकामुष्मिकसर्वपुरुषार्थप्रतिलम्भनायामुत्राप्यनुवर्तम नत्वात् प्राणेनामृतत्वमाप्नोतीत्युच्यते । मोक्षे प्राणस्याननुवृत्तेः जीवस्यैव तत्र भोग्यभोक्तरूपेण स्थितेः प्रज्ञात्मेत्युक्तप्रज्ञरूपजीवग्रहणेन प्रज्ञया सत्यं संकल्पमेतीत्युक्तम् । वाक्यभेद इति । 'मामेव विजानीही ' त्यत्र चिद्विशिष्टोपासनविधिः । इद्द प्राणविशिष्टोपासनविधिरिति उपासनानां पृथक्पृथग्विधिर्नेत्यर्थः । १५ --