पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका 1 प्रज्ञया सत्यं 'संकल्पमेति ॥ १६ ॥ स यो मामायुरमृतमित्युपास्ते सर्वमायुरस्मिन् लोक "एति। आप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके ।। १७ ।। तद्धैक आहुः एकभूयं वै प्राणा गच्छन्तीति ॥ १८ ॥ 1. सत्यसंकल्पम् .. एवाप्नोति. प्रज्ञात्मत्वविशिष्टोपासनस्य फलमाह प्रज्ञया - एति । अपहतपाप्मत्वादिगुणाष्टकविशिष्ट त्व ] लक्षणं ब्र (ब्रा?) ह्मरूपमित्यर्थः ॥ १६ ॥ आयुरमृतत्वगुणविशिष्टप्राणोपासनस्य फलमाह -स यो-लोके । अक्षितिं चिरकालावस्थायित्वम् । ततश्च मधुविद्यायाः वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तिवत् अस्या अपि विद्यायाश्विरायुष्टपूर्वकचिरकालस्वर्गवाप्तिपूर्वकब्रह्मप्राप्तिः फलमित्युक्तं भवति ॥ १७ ॥ उपास्यमानस्य प्राणस्य प्राणान्तरापेक्षया श्रैष्ठ्यं वक्तुं पूर्वपक्षमाह तद्धैके- गच्छन्तीति । मुख्यप्राणश्चेतराणि चेन्द्रियाणि एकैकस्मिन् कार्ये कर्तव्ये परस्परसाह्यलक्षणमेकभावं यान्ति । अतो मुख्यप्राणस्य प्राणान्तरसाम्यमेवेति केचिदाहुरित्यर्थः ।।१८ युगपत् सर्वेन्द्रियकार्यादर्शनात् पृथक्पृथगिन्द्रियाणां स्वस्वकार्ये असामर्थ्यावधारणात् एकेन्द्रियेण कार्य क्रियमाणे अन्येन्द्रियाणि तत्र सहकारीणि भवन्ति, न पृथक् कार्ये क्षमन्त इति सर्वस्य कर्यस्य सर्वाधीनत्वात् प्राणानां समबलत्वमेवेति केषाश्चित् पक्षं स्वयमिन्द्र उपवर्ण्य, एवमु हेतदिति तदिन्द्र ऊरीकृत्यैवोपरि मुख्यप्राणस्य प्राबल्यं प्रकारान्तरेणाचष्ट । सोऽयमूरीकारः किमेकेन्द्रियकार्यकाले इन्द्रियान्तरकार्याभावमात्रे, उत तत्तदिन्द्रियस्य स्वकार्ये अन्येन्द्रियसहकारकत्वेऽपीति विमृश्यमेतत् । व्यर्थं तावत् चक्षुरादिकं प्रति श्रोत्रादीनां सहकारित्वकल्पनम् । मनसः सर्वेन्द्रियसहकारित्वात् , चक्षुःकार्य काले मनः तस्यैव सहकारि भवतीति मनोरूपसहकारिविरहादेव श्रोत्रादिकं स्वकार्ये असमर्थमिति सर्वदर्शनमरण्यैवोपपत्तेः । वक्ष्यति चेहापि, 'प्रज्ञया वाचं समारुह्य,' 'न हि प्रज्ञापेता वाङ नाम किश्चन प्रज्ञापयेत्' इत्येवं मनसः सहकारित्वम् । किञ्च मुख्यप्राणस्य कार्ये इन्द्रियरूपप्राणानां सहकारित्वमसंभवि; तत्कार्योच्छ्वासनिश्वासादिना सह युगपदेव चक्षुरादिकार्यदर्शनेन तत्कायें एतदुपक्षयाभावात् ! एवं चक्षुराद्यभावे प्राणनव्यापारसद्भावस्य वक्ष्यमाणत्वात् मुख्यप्राणव्यापारः प्राणान्तरनिरपेक्ष एवं । एवं बधिरादेरपि दर्शनादिकार्याक्षते: श्रोत्रादेः चक्षुरादिमहकारित्वं दुर्वचमेव । अतः, चक्षुः पश्यत् सर्वे प्राणा अनुपश्यन्ती' त्यादिवाक्यस्य नेन्द्रियान्तर सहकारित्वे तात्पर्यम् । किंतु एककार्यकाले अन्येषामव्यापृतत्वमात्रे । सर्वथा मुख्यप्राणस्येतरसाम्यमितो न सिद्धयति चेति । अत एव पूर्वपक्षमाहेत्यवतारिकायां भाषितम् । अतो नैष केषाश्चिद् वास्तवः पक्ष इति ।। १८ ॥ -- 3B