पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

3 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ को. ३. न हि कश्चन शक्नुयात् सकृद्वाचा नाम प्रज्ञापयितुम् , चक्षुषा रूपम् , श्रोत्रेण [श्रोतु] शब्दम् , मनसा ध्यान (तु) मिति ॥ १९ ॥ एकभूयं वै प्राणा [भूत्वा] एकैकं सर्वाण्ये[वै]तानि प्रज्ञापयन्ति ॥ २०॥ वाचं वदन्ती (ती) सर्वे प्राणा अनुवदन्ति ॥ २१ ॥ चक्षुः पश्यत् सर्वे प्राणा अनुपश्यन्ति । श्रोतं शृण्वत् सर्वे प्राणा अनुशृण्वन्ति । मनो ध्यायत् सबै प्राणा अनुध्यायन्ति । प्राणं प्राणन्तं सर्वे प्राणा अनुप्राणन्तीति । एवमुहै [वै] तदिति हेन्द्र उवाच ॥२२॥ अस्ति त्वेव' प्राणानां निश्रेयसम् ॥ २३ ॥ जीवति वागपेतः मूकान् हि पश्यामः ॥ २४ ॥ J. अस्तित्वे च शां 2. निःश्रेयसादानम् ३.हि पश्याम इत्थेतस्थाने सर्वत्र, 'विपश्याम' इति । तत्रोपपत्तिरुच्यते न हि--ध्यातुमिति । न हीन्द्रियजातं युगपदेव स्वकार्यं जनयितुमीष्ट इत्यर्थः ॥ १९ ॥ फलितमाह एकभूयं--प्रज्ञापयन्ति । तस्मात् सर्वे प्राणा एकत्वं प्राप्य एकैक [भूत्वा ?) सर्वाण्येतानि नामरूपशब्दादीनि प्रज्ञापयन्ति ॥ २० ॥ तदेव प्रपञ्चयति वाचं--अनुवदन्ति । सहायतया तिष्ठन्तीत्यर्थः । एव- मुत्तरत्रापि ॥ २१ + २२) अथापि मुख्यप्राणस्य विशेषं दर्शयति अस्ति त्वेव-। प्राणानां मध्ये मुख्यप्राणस्य श्रेष्ठयमस्तीत्यर्थः ॥ २३ ॥ तदेव प्रपञ्चयति जीवति--- । वागिन्द्रियराहित्येऽपि शरीरधारणमस्ति । मूकानां दर्शनात् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ २४ ॥ एतद्विद्यान्ते, ‘स म आत्मेति विद्यात्' इति अस्मच्छव्दप्रयोगात्। कृत्स्नाऽपि विद्या इन्द्रोक्तिरूपैवेति स्पष्टम् । एवञ्च सति इह मन्ये इति हेन्द्र उवाचेति श्रुतिलेखनम् , मुख्यप्राणश्रैष्ठयं वक्ष्यन् इन्द्रोऽपीदं साम्यमीषदङ्गीचकार हेत्याश्चर्यप्रकटनाय । (२२)