पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका जीवति चक्षुरपेतः; अन्धान् हि पश्यामः । जीवति श्रोतापेतः; बधिरान् हि पश्यामः । जीवति बहुच्छिन्नः, जीवति उरश्छिन्नः इति एवं हि पश्यामः ॥ २५ ॥ अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति ॥ २६ ॥ तस्मादेतदेवोक्थ (त्थ) मुपासीत ।। २७ ।। यो वै प्राणः सा प्रज्ञा । या वै प्रज्ञा, स प्राणः । सह ह्येतावस्मिन् शरीरे वसतः सहोत्क्रामतः :॥ २८ ॥ जीवति बाहुच्छिन्नो जीवत्युरश्छिन्न इत्येवं हि पश्यामः । छिन्नोरस्को जीवति, छिन्नबाहुर्जीवतीत्येवं ह्यनुभूयते ॥ २५ ॥ अथ खलु-उत्थापयति । अथखलुशब्दः प्रसिद्धौ । मुन्न्यप्राण एव प्रज्ञात्मा । प्रज्ञाशब्दोऽत्र जीवपरः । स आत्मा सहायो यस्य स प्रज्ञात्मा । जीवसहायको मुख्यप्राण एव मृतप्रायं शयानं शरीरं परितो गृहीत्वा उत्थापयति ॥ २६ तस्मात् -- उपासीत । तस्मादितरेन्द्रियाणि परित्यज्य मुख्यप्राणमेवोत्थापयितृत्वगुणविशिष्टमुपासीत ॥ २७ ॥ यो वै-सहोत्क्रामतः । अत्रापि प्रज्ञाशब्देन जीव उच्यते । जीवपाणावस्मिन् शरीरे सह वसतः; सहोत्क्रामतः । ततो हेतोः जीव एव प्राणः ; प्राण एव जीवः; उभावप्येककार्यकरावित्यर्थः । अतः परमात्मनः प्राणशरीरकत्वेन जीवशरीरकत्वेन चानुसन्धानं युक्तमिति भावः ॥ २८ ॥ अथ खल्वित्यादि । एवं वागाद्यभावकालेऽपि शरीरस्य सम्यक् व्यापृतत्वदर्शनात् प्राणापेतत्वसक्तिकाले शरीरपातस्यैव दर्शनाच्च प्राण एव शरीरं परिगृह्योत्थापयति । तदिदं श्रुत्यन्तरेष्वपि प्रसिद्धं वागादिभिरभ्युपेतश्चेति खलुशब्देन सूच्यते । नन्विन्द्रियान्तराभावकाल इव प्राणाभावकाले जीवसत्तामात्रेण शरीरस्य व्यापृतत्वसंभवात् प्राणोऽपि न प्रधानमिति शङ्कानुन्मेषाय प्राणजीवयोः पृथग्भावाभावं वक्तुं प्राणस्य प्रज्ञात्माभेदारोपणम् । (२६) एतद्विवरणमेव यो वै प्राण इत्यादिना । यादृशः प्राणः, तादृशो जीव इति परमार्थः । तद् विव्रियते सह ह्येताविति । जीवस्य वासवत्त्वे प्राणोऽपि वासवान् । एकस्योत्क्रमवत्त्वेऽन्योडप्युक्रमवान् । अत: प्राणमात्राभावकालो दुर्वच इति भावः । न केवलमेतत् , प्राणजीवयोरुभयोरपि सविषयन्द्रियैकीभावास्पदत्वस्याविशिष्टत्वादपि साम्यामिति । (२८)