पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ कौ. ३. तस्यैषैव दृष्टिः एतद्विजानाति (एतद्विज्ञानम्)॥ २९ ।। यत्रतत्पुरुषः सुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवै- 1. कश्चन. तस्यैषैव-विजानाति । तस्य मुख्यप्राणस्य ज्ञातृरूप आत्मा दृष्टिः दर्शनसाधनम् । जडस्य प्राणस्य ज्ञातृरूपजीवसाहित्यादेवोत्थापनादिकार्यकरत्वादिति भावः ॥ २९ ॥ यत्र --भवति । यत्र यद। एतत्पुरुषः एष पुरुषः सुप्तस्सन् न कञ्चन स्वप्नं पश्यति, अथ तदेत्यर्थः-अस्मिन् प्राणे प्राणशरीरके परमात्मनि अयं - एवं प्रधानजीवाभिन्नतया निरीक्ष्ये प्राणे कथं नोत्कर्ष इति व्युत्पादयितुम् तस्यैव दृष्टिरित्याद्यारम्भः । एतद्विजानातीत्यस्य, यदेतत् जीवतत्त्वं विज्ञानकर्तृ एतदेव तस्य दृष्टिः दर्शनसाधकमित्याऽभिमतः । अत्र वागाद्यप्ययकालेऽपि प्राणस्थानप्ययेन स्थितिविषये इदं वक्ष्यमाणमेकं निदर्शनमिति तस्यैषैव दृष्टिरिति वाक्येनोच्यते । तदेव पुनर्विव्रियते एतद् विज्ञानमिति । विजानातीत्येतत्स्थाने विज्ञानमिति पाठस्यैव संप्रति दर्शनात् । निदर्शनमित्यर्थे प्रज्ञानमिति पदप्रयोगस्य न्यायभाष्यादो दृष्ट्त्वात् दृष्टिरित्यस्य विज्ञानमिति पर्यायान्तरेण विवरणम् । प्राणस्यानप्ययेन स्थितिविषये मूर्छारूपनिदर्शनान्तरं वक्तुं पुनः, तस्यैषैव सिद्धिरेतद्विज्ञानमिति वाक्यारम्भः । तदुपरि तस्यैषैव दृष्टिरिति वाक्यं तु कोशान्तरेषु नोपलभ्यते । भाष्येऽपि तत्पाठस्थितौ न किञ्चद् गमकम् । पूर्णमूलखण्डग्रहणपूर्वं प्रकाशिकायां क्रियमाणायाम् , तादृशात् तालकेशात् मूलभागं पृथक्कृत्य व्याख्याभागमात्रं प्रतीकेनापि रहितं पृथङिनवेश्य मुद्रयद्भिः तस्यैषैव दृष्टिरित्यंशस्य मूलत्वकल्पनेन अयथायथं मुद्रणं कृतम् । भाष्ये तु तस्यैषैव सिद्धिरेतद्विज्ञानमिति मूलवाक्यं व्याख्याय तदिदं पूर्वोक्तस्य तस्यैषैव दृष्टिरेतद्विजा- नातीति वाक्यस्य पुनर्वचनपरमिति बोधयितुं प्रवृत्तमिति । सुषुप्तौ मुख्यप्राणमात्रस्योच्छ्वासनिश्वासरूपेणावस्थितेः प्रत्यक्षत्वात् मूर्छायामपि सूक्ष्मरूपेण तत्स्थितेरौष्ण्यदिना गृह्यमाणत्वात् उभयोर्निदर्शनत्वम् । सुषुप्ताविव मूर्छायां प्राणस्य विस्पष्टदर्शनाभावादाक्षेपतः सिद्धिमाभिप्रेत्य दृष्टिरित्यनुक्त्वा सिद्धिरित्युक्तिः । एतद्रीत्या उत्क्रान्तिकाले मुख्यप्राणे इतरप्राणाप्ययस्य शास्त्रैकवेद्यत्वात् तत्र (४१) तस्यैषैव दृष्टिरित्याद्यनुक्तिः । एवमर्थवर्णनसंभवेऽपि विजानातीति पाठमवलम्ब्य भाष्येऽन्यथार्थवर्णनमिति ध्येयम् । एतद्विजानातीतिपाठेऽपि, 'तस्यैषा दृष्टिः यत्रैतदस्मिन् शरीरे संस्पर्शनोष्णिमानं विजानातीति (३.१३.) छान्दोग्यवाक्य इवोक्तरीत्याऽर्थवर्णनं युक्तम्, एतद्विजानातीत्यस्य अनन्तरवाक्यवश्यमाणं विज्ञानातीति यत्, एषैव तस्य दृचिरितिव्याख्यासंभवात् । -- .4 . ,