पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका १४३ कधा भवति ॥ ३०॥ तदैनं वाक् सर्वैर्नामभिः सहाप्येति ॥ ३१ ॥ चक्षुः सर्वै रूपैः सहाप्येति ।। ३२ ॥ श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैध्यानैः सहाप्येति ॥ ३३ ॥ स यदा प्रतिबुध्यते - यथाऽग्नेः [ज्वलतो] विस्फुलिङ्गा विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः; देवेभ्यो लोकाः ॥ ३४ ॥ सुप्तः पुरुषः एकधा भवति । एकधाभावप्रकारश्चोत्तराध्याये वक्ष्यते ॥ ३०॥ तदैनं-सहाप्येति । परमात्मनैकीभूते जीवे स्वकार्येण नामाभिलपनेन सह वागिन्द्रियं लीनं भवतीत्यर्थः ॥ ३१ ॥ चक्षुः-- अप्येति । अत्र रूपशब्दो रूपज्ञानौपयिकव्यापारपरः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ३२ ॥ श्रोत्र ---- अप्येति ॥ ध्यानैः ध्यानौपयिकव्यापारैरित्यर्थः । शिष्टं स्पष्टम् ॥ ३३ ॥ स यदा लोकाः। प्राणाः जीवाः ; देवाः इन्द्रियाणि, लोकाः ज्ञानानि ।। ३४ ॥ वक्ष्यत इति । व्याख्यास्यत इत्यर्थः । (३०) प्राणाः जीवा इति । 'देवाः श्रद्धां जुह्वती ' त्यादौ देवशब्दस्येन्द्रियेषु प्रयोगप्रसिद्धेः, अपौनरुक्त्याय प्राणा इति इन्द्रियग्रहणायोगात् , अग्निविस्फुलिङ्गसादृश्यस्य परमात्मजीवात्मनोः आत्मनः प्राणा इत्यनेनोक्तौ सामञ्जस्यात् , भूमविद्यायाम् , 'आत्मतः प्राण आत्मत आशे 'ति प्राणपदेन जीवग्रहणदर्शनाच्चैवमर्थो वर्णितः । अन्यथा तु प्राणपदेनेन्द्रियग्रहणम् , देवपदेन तदधिष्ठातृदेवताग्रहणं तत्कार्यग्रहणं वा, लोकपदेन इन्द्रियकार्यग्रहणं विषयग्रहणं वेति वक्तव्यम् । विमृष्टमिदं श्रुतप्रकाशिकायाम् । एकपुरुषप्रतिबोधवर्णनार्थे वाक्ये बहुजीवविप्रतिष्ठानवर्णनं न रुचिरमिति चेत् --- अस्तु कोऽप्यर्थः । किमनेन मुख्यप्रमेयबाधनप्रसङ्गरहितेन ॥ ३५ ॥ -- , -