पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता तस्यैषैव सिद्धिः ॥ ३५ ॥ एतद्विज्ञानम् ॥ ३६ ॥ [तस्यैषैव दृष्टिः ॥] (1) यत्रैतत्पुरुष आर्तो मरिष्यन् आबल्यं न्येति (त्य) मोहं न्येति, तदाहुः उदक्रमीच्चित्तम् ; न शृणोति; न पश्यति, न वाचा वदति- अथामिन् प्राण एवैकधा भवति ॥ ३७॥ तदैनं वाक् सर्वैनामभिः सहाप्येति ॥ ३८ ॥ चक्षुः सर्वै रूपैः सहाप्येति, श्रोत्रं सर्वैः शब्दैः सहाप्येति, मनः सर्वैध्यानैः सहाप्येति । स यदा प्रतिबुध्यते ॥ ३९ ॥ . - तस्यैषैव सिद्धिः तस्य एवम्भूतस्य मुख्यप्राणस्य सिद्धिः कार्यसाधकम् एतद्विज्ञानम् एतस्य जीवस्य यत् विज्ञानम् , तदेव साधकम् । अथवा विज्ञानलक्षणमेतदात्मत्वं (त्मतत्त्वं ?) साधकमित्यर्थः । प्राणजीवौ एकतामापन्नौ एककार्यसाधकाविति यावत् । तस्यैषैव दृष्टिः एतद्विजानातीत्युक्त एवार्थोऽनेनापि वाक्येन दार्ढ्योक्तः ॥ ३६ ॥ सुप्तौ मुख्यप्राणस्येतरप्राणाप्ययोद्गमनापादानहेतुत्वमुक्त्वा मूर्छायामपि तदाह यत्रैतत् - एकधा भवति । यदा एष पुरुषः व्याध्यादिना पीडितो मरिष्यन् आबल्यम् । अबलस्य भाव आबल्यम् बलराहित्यं न्येति नितरामेति गच्छति । मोहं मूर्छा न्येति पाप्नोति, तदा समीपवर्तिन आहुः, चित्तमुदक्रमीत् । मनः निलीनमित्यर्थः । तत्र हेतुः न शृणोति न पश्यति न वाचा वदतीति । अथ तदा अस्मिन् प्राणे प्राणशरीरके परमात्मनि ऐकध्यं प्रयातीत्यर्थः ॥ ३७+३८ ॥ स यदा प्रतिबुध्यते । आयुश्शेषौषधवशादित्यर्थः ॥ ३९ ॥ इत्युक्त एवार्थ इति । इति पूर्ववाक्याभ्यामुक्त एवार्थ इत्यर्थः । एकोनत्रिंशवाक्ये सर्वं द्रष्टव्यम् । (३६)