पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका यथाऽग्नेः (ज्वलतो) विस्फुलिङ्गा विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते, प्राणेभ्यो देवाः, देवेभ्यो लोकाः ॥ ४०॥ स यदाऽस्माच्छरीरादुत्क्रामति वागस्मात् सर्वाणि नामान्यभिविसृजते ॥ ४१ ॥ वाचा सर्वाणि नामान्याप्नोति ।। ४२ ॥ [स प्राणो वाचा सर्वाणि नामान्याप्नोति ] (2) घ्राणोऽस्मात् सर्वान् गन्धानभिविसृजते । घाणेन सर्वान् गन्धानाप्नोति ॥ ४३ ॥ 1. घ्राणशब्दस्थाने सर्वत्र प्राणशब्दः । उत्क्रान्तावपि मुख्यप्राणस्य सर्वोपजीव्यतामाह यथाग्नेः-लोकाः ॥ ४०॥ स यदा--अभिविसृजते । स प्राणः यदाऽस्माच्छरीरादुत्क्रामति, तदा वागिन्द्रियमेतच्छरीरप्रयुक्तनामाद्यभिलपनं त्यजति ॥ ४१ ।। वाचा सर्वाणि नामान्याप्नोति । यत्र प्राणः स्वयं तिष्ठति, तत्रैव शरीर स्वोपकरणभूतवागिन्द्रियेण सर्वनामाभिलपनरूपं व्यवहारं करोति । एवमुत्तरत्रापि द्रष्टव्यम् ॥ ४२ ॥ ध्राणोऽस्मात् - । घ्राणेन सर्वान् गन्धानाप्नोति । प्राणजन्यज्ञानेन सर्वान् गन्धान् विषयीकरोतीत्यर्थः ॥ ४३ ।। वागस्मादिति । पूर्वम् अस्माच्छरीरादिति शरीरस्यैव अस्मादित्युक्त्या इदमप्यस्मात्पदं तत्परमित्यभिसंधाय एतच्छरीरप्रयुक्तत्युक्तम् । अन्यथा प्राणोऽपि तदर्थः स्यात् । अभिविसृजते अभितस्त्यजति ; न स्वव्यापारे क्षमत इत्यर्थः (४१) 19