पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ को. ३. चक्षुरस्मात् सर्वाणि रूपाण्यभिविसृजते। चक्षुषा सर्वाणि रूपाण्याप्नोति । श्रोत्रमस्स्मात् सर्वान् शब्दानभिविसृजते । श्रोत्रेण सर्वान् शब्दानाप्नोति । मनोऽस्मात् सर्वाणि ध्याना (ता)न्यभिविसृजते । मनसा सर्वाणि ध्याना (ता) न्याप्नोति। सैषा प्राणेन सर्वाप्तिः ॥ ४४ ॥ यो वै प्राणः सा प्रज्ञा । या वै प्रज्ञा स प्राणः । सह ह्येतावस्मिन् शरीरे वसतः सहोत्क्रामतः ॥ ४५ ॥ 'अथ खलु यथा प्रज्ञायां सर्वाणि भूतान्येकीभवन्ति, तद् व्याख्यास्यामः वागेवास्या एकमङ्गमुदृढम् , तस्या (स्यै) नाम पुरस्तात्(!) प्रतिविहिता भूतमात्रा ॥ ४६॥ 1. अथ यथाऽस्यै प्रज्ञाय. शां .. पुरस्तादित्यत्र सर्वत्र 'परस्तात् ' इति पा० चक्षुः--'आप्नोति । सैषा प्राणेन सर्वाप्तिः । सर्वेषां विषयाणां प्राणाधीनेन्द्रियजन्यज्ञानविषयत्वलक्षणा प्राणकर्तृकसर्वाप्तिरित्यर्थः ॥ ४४ ॥ यो वै---उत्क्रामतः । उक्तोऽर्थः ।। ४५ ॥ प्राणस्य सर्वभूताश्रयत्वमुक्त्वा प्रज्ञाशब्दितस्य जीवस्य सर्वभूताश्रयत्वप्रकारः कथ्यत इत्याह अथ खलु-व्याख्यास्यामः । वागेव- उदृढम् । अस्याः प्रज्ञायाः वागिन्द्रियमेकमङ्गम् उदृढं परिगृहीतमित्यर्थः । उद्वाहकर्मभृतपत्नीदत् परिगृहीतमित्यर्थः । वस्तुतस्तस्याङ्गाभावात् । तस्या नाम-भूतमात्रा । तस्याः वाचः पुरस्तात् ग्राह्यत्वेन विषयत्वेन प्रति- एवं मुख्यप्राणे सत्येव सर्वेषां कार्यक्षमत्वात् मुख्यप्राणेनैव सर्वमाप्यत इति प्राणप्राधान्यस्योपसंहारः सैषा प्राणेन सर्वाप्तिरिति । (४४) प्राण एव प्रज्ञात्मेति प्राणजीवाभेदनिर्देशस्य सादृश्यनिबन्धनत्वं दर्शयता प्राणस्य सर्वैकीभावास्पदत्वमेतावतोपपाद्य प्रज्ञाशब्दवाच्ये जीवेऽपि तदुपपादयितुं यो वै प्राण इति पूर्वाक्यपुनः पाठः । (४५) अथोपपादनम् अथ खल्वित्यादिना । उदूढमिति । प्रज्ञाया उदूढानि यानि, तत्र वाक्एकमङ्गमित्यर्थः । परस्तादिति सर्वसंमतः पाठः ; न तु पुरस्तादिति । ग्राह्यग्राहक्योरैक्यभ्रान्त्यपोहनाय परस्तादित्युक्तिः ।