पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

1 तत्तत्त्यत्सारभूतस्तदुभयपुरुषस्तस्य कौसुम्भमुख्यैः तुल्यं विद्युन्निभश्रीविलसित ! विदुषो रूपमीदृग् भवेच्छ्रीः ॥ १०८

रूपस्यैवं द्विधा श्रीकमन ! विभजनात् न त्वमेतावदात्मा यत् त्वं सत्यस्य सत्यो भवसि बहुविधै रूपवत्त्वात्तु जीवैः । सद्रूपभ्वादियुक्तत्यदभिधस्वमरुत्सारनेत्रादिसत्स्थ- त्यद्रूपत्वात् परं न ; त्वमथ चिदधिकत्वाञ्च सत्यस्य सत्यः ।। १०९ . आत्मानात्मस्थदोषप्रतिभटमखिलत्वेऽपि वैशिष्टययोगात् आर्द्रैधाग्निक्रमं त्वां निजतनुविगलन्नामरूपप्रपञ्चम् । चिद्भिर्भूतानुषक्तं स्वयमपि च महद् भूतमाध्याय कश्चित् . मैत्रीयीवामृतत्वं श्रितरम ! लभते नित्यसार्वात्म्यदृष्टिः ॥ ११०

वाक् चक्षुः श्रोत्रचित्ते अन इति हृदयव्योम कौक्षयतेजो देहो रेतश्च धर्मः स्वर इति च ऋतं मानुषञचान्यदात्मा । एतान्यध्यात्ममन्यक्रमत इह वदत् श्रीश ! पञ्चाष्ट चैकं बाह्यांश्चार्थास्तदर्थान् उपदिशति मधुब्राह्मणं त्वा तदन्तः ।। १११

देवाः स्युः प्राणभाजां मधु हितवहनात् ते च तेषां तदेतत तत्तद्देवे च तत्तन्नियमनविषये चोक्त आध्यात्मिकांशे । श्रीमन् ! अन्तःस्थितेः स्यादमृत ! तव मधु त्वं त्वदीयञ्च रूप दिव्यं देहान्तरिद्धं पतिरसि च हरिर्मध्विदं सर्वसारः ॥ ११२

अश्विभ्यामुग्रकृद्भयां मधु समधिगतं प्राग दधीचोऽश्ववक्त्रात् देवादेवान्तरात्मामृतमयपुरुषव्यापि दिव्यं रहस्यम् । पक्षी भूत्वा प्रतिप्राण्यनुविशसि भजस्यञ्जसा प्रातिरूप्यं श्रीमन् ! एकोऽप्यनन्तावतरण ! हरयोऽनन्त ! निर्माताः ॥ ११३

ब्रह्मिष्ठो याज्ञवल्क्यो यजनकृदनुबन्ध्यश्चलं प्र- अध्यात्मञ्चार्तभागं ग्रहमुखगणनां मृत्यु मादिकञ्च । bta61