पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका १४७ घ्राणमेवास्या एकमङ्गमुदृढम् , तस्य गन्धः पुरस्तात् प्रतिविहिता भूतमात्रा । चक्षुरेवास्या एकमङ्गमुदृढम् , तस्य रूपं पुरस्तात् प्रतिविहिता भूतमात्रा । श्रोत्रमेवास्या एकमङ्गमुदृढम् , तस्य शब्दः पुरस्तात् प्रतिविहिता भूतमात्रा। जिह्वैवास्या एकमङ्गमुदृढम् , तस्यान्नरसः पुरस्तात् प्रतिविहिता भूतमात्रा । हस्तावेवास्या एकमङ्गमुदृढम् , तयोः कर्माणि (र्म) पुरस्तात् प्रतिविहिता भूतमात्रा । शरीरमेवास्या एकमङ्गमुदृढम् , तस्य सुखदुःखे पुरस्तात् प्रतिविहिता भूतमात्रा। उपस्थ एवास्या एकमङ्गमुदृढम् , तस्यानन्दो रतिः प्रजातिः पुरस्तात् प्रतिविहिता भूतमात्रा ।। ४७ ।। पादावेवास्या एकमङ्गमुदृढम् , तयोरित्याः (त्या) पुरस्तात् प्रतिविहिता भूतमात्रा ॥४८॥ प्रज्ञावास्या एकमङ्गमुदृढम् , तस्यै धियो विज्ञातव्यं कामाः पुरस्तात् प्रतिविहिता भूतमात्रा ॥ ४९ ॥ . विहिता प्रतिद्वंद्वितया प्रतिनियततया विहिता भूतमात्रा नाम । एवमुत्तस्त्रापि द्रष्टव्यम् ।। ४६ ॥ प्रजातिः प्रजननमित्यर्थः ॥ ४७ ।। इत्याः गमनानीत्यर्थः ।। ४८ ॥ प्रज्ञैवास्याः --- भूतमात्रा । अथ (अत्र !) प्रथमान्तः प्रज्ञाशब्दः मनःपरः । अस्या इति तु प्रज्ञारूपजीवपरः । उत्तरत्र, नेत्यां विजिज्ञासीत नेतारं इत्यनन्तरम् , न मनो विजिज्ञासीते' ति मनश्शब्दप्रयोगात् स्थानप्रमाणेन प्रज्ञाशब्दस्य मन एवार्थः । धियो विज्ञातव्यम् मनोजन्यज्ञानविषयमि(य इ ?) त्यर्थः । कामाः काम्यमाना इत्यर्थः ॥ १९ ॥ . विद्यात् । 1 -- तद्विवरणं प्रतिद्वन्द्वितयेत्यन्तम्। उदूढमित्येतत्स्थाने अदृदुहदित्येव श्रुतप्रकाशिकापाठोऽपि । अदूदुहत् अपूरयदिति अद्गैतिव्याख्या शाङ्करसूत्रभाष्ये । वाक् प्रज्ञाया एकांशभूतमिति परमार्थः । एवमग्रेऽपि । (४६)