पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति ॥ ५० ॥ प्रज्ञया घाणं (प्राणं) समारुह्य घ्राणेन (प्राणेन) सर्वान् गन्धानाप्नोति ॥ ५१ ॥ प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति ॥ ५२ ।। प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वान् शब्दानाप्नोति । प्रज्ञया जिह्वां समारुह्य सर्वानन्नरसानाप्नोति । प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति । प्रज्ञया शरीरं समारुह्य उपस्थेनानन्दं रतिं प्रजातिमाप्नोति । प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्या आप्नोति । प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानाप्नोति ॥ ५३ ॥ एवं नामगन्धरूपशब्दरसकर्मसुखदुःखानन्दगतिज्ञातव्याः दश भूतमात्राः वाग्ध्राणादिविषयत्वेनोक्त्वा प्रज्ञाशब्दितस्य जीवस्य नामादिदशविधभूतमात्राव्याप्तिप्रकारमाह प्रज्ञाया वाच--- | अत्र प्रज्ञाशब्दः अव्यवहितप्रज्ञाशब्दनिर्दिष्टमनः- परः । ततश्च मनसा वागिन्द्रियमधिष्ठाय तद्वारा सर्वाणि नामानि अभिलपनक्रियाद्वारा प्राप्नोति ॥ ५० ॥ प्रज्ञया घ्राणं--आप्नोति । मनसा प्राणेन्द्रियमधिष्ठाय तद्वारा सर्वान् गन्धान् आप्नोति ज्ञानेन व्याप्नोति । एवमुत्तरत्रापि द्रष्टव्यम् , मनसा चक्षुरिन्द्रियमधिष्ठाय तद्वारा सर्वाणि रूपाण्याप्नोति ज्ञानेन व्याप्नोतीति ।। ५१ + ५३. प्रज्ञया वाचमित्यादिवाक्येषु तृतीयान्तं प्रज्ञापदं पूर्ववाक्यप्रकृतमनः परम् | जीवस्तु आप्नोतेः कर्ता, न करणम् । (५१) प्रज्ञयैव धियं समारूह्यत्र धियमिति धर्मभूतज्ञानपरम् । मानसकार्याणां सर्वेषां धर्मभूतज्ञानपरिणामत्वात् तदपेक्षाध्रौव्यात् । प्रज्ञयैवइत्यौवक रः पूर्वस्थलेषु समारोहसाधनस्य विषयप्रापकस्य करणस्य च प्रज्ञावागादिरूपेण भेदवत् इह भेदो नास्ति ; मन एव समारोह विषयप्रापकश्चेति ज्ञप्तये । अस्तु वा धियमिति मनःपरमेव ; प्राक तथोक्तेः । (५३)