पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

-- - . कौषोतक्युपनिषत्प्रकाशिका न हि प्रज्ञापेता वाइनाम किश्चन प्रज्ञापयेत् ।। ५४ ॥ अन्यत्र मे मनोऽभृदित्याह, नाहमेतन्नाम प्राज्ञासिषमिति ।। ५५॥ न हि प्रज्ञापेतो घ्राणो गन्धं कश्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतं गन्धं प्राज्ञासिषमिति । न हि प्रज्ञापेतं चक्षू रूपं किञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतद्रूपं प्राज्ञासिषमिति । न हि प्रज्ञापेतं श्रोत्रं शब्दं कञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेनं शब्दं प्राज्ञासिषमिति । न हि प्रज्ञापेता जिह्वा अन्नरसं कश्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभृदित्याह, नाहमेतमन्नरसं प्राज्ञासिषमिति । न हि प्रज्ञापेतौ हस्ती कर्म किश्चन प्रज्ञापयेताम् । अन्यत्र मे मनोऽभूदित्याह, नाऽहमेतत् कर्म प्राज्ञासिषमिति । न हि प्रज्ञापेतं शरीरं सुखदुःखे' किञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतत् सुखदुःखे' प्राज्ञासिषमिति । न हि प्रज्ञापेत उपस्थः आनन्दं रतिं प्रजातिं कञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतमानन्दं रतिं प्रजातिं प्राज्ञासिषमिति । न हि प्रज्ञापेतौ पादावित्यां काञ्चन प्रज्ञापयेताम् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतामित्यां प्राज्ञासिषमिति । न हि प्रज्ञापेता धीः काचन सिद्धयेत् ।। ५६ ।। 1. सुखदुःखं. ननु मनोद्वारा नियमनं किमर्थमित्याशङ्कयाह न हि प्रज्ञापेता-प्रज्ञापयेत् । न हि मनोनधिष्ठितं वागिन्द्रियं नामप्रज्ञापनसमर्थं भवतीत्यर्थः ।। ५४ ।। अत्र लोकमेव साक्षित्वेनोदाहरति अन्यत्र मे | लोको हि अन्यत्र मे मनोऽभूदित्युक्त्वा, एतन्नाम न प्राज्ञासिष ' मिति ह्याह । मनोव्यासङ्गवशात् ज्ञानपूर्वकनामाभिलपनलक्षणवागिन्द्रयव्यापारो नाभूदिति हि लोकः प्रत्येतीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ५५+५६ ॥ सर्वकरणानां मनोपेक्षां व्यतिरेकमुखेनोपपादयति न हि प्रज्ञापेतेति ॥ प्रज्ञापयेदिति ज्ञानेन्द्रियाणां प्रज्ञापकत्वं स्वरसम् कर्मेन्द्रियाणां तु ज्ञानपूर्वकस्य परज्ञानहेतुभूतस्य च व्यवहारस्य हेतुत्वात् प्रज्ञापकत्ववाचोयुक्तिः । ५४-५६ ..