पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता कौ. ३. -- i न प्रज्ञातव्यं प्रज्ञायेत ॥ ५७ ॥ न वाचं विजिज्ञासीत ; वक्तारं विद्यात् ।। ५८ ॥ न गन्धं विजिज्ञासीत; घ्रातारं विद्यात् । न रूपं विजिज्ञासीत ; रूपं विद्वांसं (रूपविदं) विद्यात् ।। ५९ ॥ न शब्दं विजिज्ञासीत; श्रोतारं विद्यात् । नान्नरसं विजिज्ञासीत ; अन्नरसविज्ञातारं विद्यात् । न कर्म विजिज्ञासीत ; कर्तारं विद्यात् । न सुखदुःखे विजिज्ञासीत ; सुखदुःखयोविज्ञातारं विद्यात् । नानन्दं न रतिं न प्रजातिं विजिज्ञासीत; आनन्दस्य रतेः प्रजातर्विज्ञातारं विद्यात् । नेत्यां विजिज्ञासीत ; एतारं विद्यात् । न मनो विजिज्ञासीत; मन्तारं विद्यात् । ता वा एता दशैव भूतमात्राः अधिप्रज्ञम् , एवं प्रज्ञाशब्दितस्य जीवस्य भूतमात्राव्याप्तिप्रकारकथनमुखेन आत्मानात्मविवेकं प्रदर्श्य, 'अन्या वाचो विमुञ्चथ' इत्युक्तरीत्या भूतमात्राशब्दितानात्मविज्ञानं परिहर्तव्यमित्याह न प्रज्ञातव्यं प्रज्ञायेतेति । ज्ञात्रात्मव्यतिरिक्तः अनात्मभूतो विषयो न ज्ञातव्य इत्यर्थः ॥ ५७ ॥ तदेव प्रपञ्चयति न वाचं-विद्यात् । अत्र वाक्छब्दः प्रकरणानुगुण्यात् नामपरः । वक्तारम् उक्तरीत्या मनोधिष्ठितवागिन्द्रयजन्याभिलपनक्रियया नामव्याप्तारमात्मानमेव विद्यात् । वक्तृजीवशरीरकपरमात्मानं विद्यादिति यावत् । एमुत्तरत्रापि द्रष्टव्यम् ॥ ५८ ॥ रूपं विद्वांसं रूपं पश्यन्तं विद्यादित्यर्थः ।। ५९ ।। ता वा एता:--सिद्धयेत् । नामगन्धरूपशब्दरसकर्मसुखदुःखानन्दरति- प्रजातीत्याज्ञातव्यलक्षणा दश भूतमात्राश्च, तद्ग्राहिवाग्घ्राणचक्षुश्श्रोत्रजिह्वाहस्तशरोरोप- न प्रज्ञातव्यं प्रज्ञायतेति । पूर्व, तस्यै धियो विज्ञातव्यमिति द्वयोः प्रसक्तत्वात् तत्र प्रज्ञाविरहे धियो न भवन्तीतिवत् प्रज्ञातव्यमपि न प्रज्ञायेतेत्युच्यत इति युक्तं व्याख्यातुम् । अथापि तदा, 'प्रज्ञाविरहे' इत्यध्याहारादिगौरवात् वक्ष्यमाणार्थस्य समुदायतो निर्देशः प्रथम- मिति योजनां वक्ष्यन् अवतारयति एवं प्रज्ञाशब्दितेति । तथा च न प्रज्ञायेतेत्येतत् निषेधविधिरूपम् , प्रज्ञातव्यः विषयो न प्रज्ञातव्य इति भावः । वस्तुतः पूर्ववाक्ये धिय इति विज्ञातव्यमित्येतद्विशेषणमेवाभिमतम् । (५७) वक्तृजीवशरीरकेति। यद्यपि वाक्यानीमानि जीवमात्रपराणि ;शरीरे वसतः रथस्येति परमात्मपरमिति सुवचम् - अथाप्यस्य केवलस्यानादेयत्वात् विशिष्टविवक्षा ।